अपि चेदसि पापेभ्यः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।

पदच्छेदः

अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेन एव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

अन्वयः

अपि चेत् सर्वेभ्यः पापेभ्यः पापकृत्तमः असि (तदा) सर्वं वृजिनं ज्ञानप्लवेन एव सन्तरिष्यसि ।

शब्दार्थः

अपि चेत् = यदि पुनः
सर्वेभ्यः = सकलेभ्यः
पापेभ्यः = पापकारिभ्यः
पापकृत्तमः = पापिः
असि = भवसि
(तदा) सर्वम् = तदा समस्तम्
वृजिनम् = पापम्
ज्ञानप्लवेन एव = ज्ञानोडुपेन एव
सन्तरिष्यसि = अतिक्रमिष्यसि ।

अर्थः

भवान् सर्वेषां पापिनाम् अपेक्षया अधिकं पापं कृतवान् चेदपि ज्ञानरूपया नौकया निस्सन्देहं तं पापरूपं समुद्रं तरिष्यति ।

शाङ्करभाष्यम्

किं चैतस्य ज्ञानस्य माहात्म्यम्-अपीति। अपिचेदसि पापेभ्यः पापकृद्भ्यः सर्वेभ्योऽतिशयेन पापकृत्पारकृत्तमः सर्वं ज्ञानण्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनंःवृजिनार्णवं पापं संतरिष्यसि, धर्मोऽपीह मुमुक्षोः पापमुच्यते ।।36।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अपि_चेदसि_पापेभ्यः...&oldid=7324" इत्यस्माद् प्रतिप्राप्तम्