अपि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

अपि इत्यव्ययविचारः

अर्थविवरणम्

अपि इत्यव्ययं विविधेषु अर्थेषु प्रयुज्यते । ते च अर्थाः -

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।[१]

अर्थात् - गर्हा = निन्दा, समुच्चयः, प्रश्नः, शङ्का, सम्भावना (शक्त्युत्कर्षमाविष्कर्तुम् अत्युक्तिः)[२] इत्येतेषु अर्थेषु अपि इत्यव्ययं प्रयुज्यते |

पुनश्च -
अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये ।
तथा युक्तपदार्थे च कामचारक्रियासु च ॥[३]

उदाहरणानि

  • गर्हा(निन्दा) = १) धिग्देवदत्तम् अपि स्तुयाद् वृषलम् ।
  • समुच्चयः = अपि स्तुहि अपि सिञ्च ।
  • प्रश्नः = १)अपि क्रियार्थं सुलभं समित्कुशम् । २) अपि गच्छसि गृहम् ?
  • शङ्का = १) अपि प्रसीदेद् रुष्टो नृपतिः ! २) अपि चोरो भवेत् ! ३) अपि देवदत्तो गच्छेत् !
  • सम्भावना = १) अपि स्तुयाद् विष्णुम् ।

सन्दर्भः

फलकम्:Reflist

सम्बद्धाः लेखाः

  1. अमरकोशः ३/३/२४९
  2. सिद्धान्तकौमुदी
  3. विश्वकोशः १८८/३९
"https://sa.bharatpedia.org/index.php?title=अपि&oldid=6736" इत्यस्माद् प्रतिप्राप्तम्