अपाने जुह्वति प्राणं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवविंशतितमः (२९) श्लोकः ।

पदच्छेदः

अपाने, जुह्वति, प्राणं, प्राणे ,अपानं, तथा,अपरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अन्वयः

प्राणायामपरायणाः अपरे प्राणापानगती रुद्ध्वा प्राणम् अपाने जुह्वति, तथा प्राणे अपानं जुह्वति ।

शब्दार्थः

प्राणायामपरायणाः = प्रणायामतत्पराः
अपरे = इतरे
प्राणापानगती = प्राणापानवायुगमने
रुद्ध्वा = निरुध्य (कुम्भकः)
प्राणम् = प्राणवायुम् (पूरकः)
अपाने = अपानवायौ
जुह्वति = समर्पयन्ति
तथा = एवम्
प्राणे = प्राणवायौ
अपानम् = अपानवायुम्
जुह्वति = समर्पयन्ति (रेचकः) ।

अर्थः

केचन प्राणायामपरायणाः योगिनः अपानवायौ प्राणवायुं समर्पयन्ति । इतरे प्राणवायौ अपानवायुं समर्पयन्ति । एवं कुम्भक-रेचक-पूरकादिक्रमेण प्राणायामं कुर्वन्तः आत्मसंयमनं कुर्वन्ति ।

शाङ्करभाष्यम्

किंच-अपान इति। अपानेऽपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम्। पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः। प्राणेऽपानं तथापरे जुह्वति रेचकाख्यं च प्राणायामं कुर्वन्तीत्यतत्, प्राणापानगती मुखनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतस्तद्विपर्ययेणाधोगमनमपानस्य ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः।प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः।।29।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अपाने_जुह्वति_प्राणं...&oldid=9095" इत्यस्माद् प्रतिप्राप्तम्