अपर्याप्तं तदस्माकं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ।

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य दशमः (१०) श्लोकः ।

पदच्छेदः

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥

अन्वयः

अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति) ।

शब्दार्थः

अस्माकम् = कौरवाणाम्
भीष्माभिरक्षितम् = भीष्मेण संरक्षितम्
तद् बलम् = तद् सैन्यम्
अपर्याप्तम् = असमर्थम्
एतेषां तु = पाण्डवानां पुनः
भीमाभिरक्षितम् = भीमेन संरक्षितम्
इदं बलम् = इदं सैन्यम्
पर्याप्तम् = समर्थम्

अर्थः

यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमिदम् असमर्थम् । पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in/

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अपर्याप्तं_तदस्माकं...&oldid=7430" इत्यस्माद् प्रतिप्राप्तम्