अपरे नियताहाराः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रिंशत्तमः (३०) श्लोकः ।

पदच्छेदः

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति सर्वे अपि एते यज्ञविदः यज्ञक्षपितकल्मषाः ॥ ३० ॥

अन्वयः

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः ।

शब्दार्थः

अपरे = अन्ये
नियताहाराः = परिमिताहाराः
प्राणान् = प्राणवायून्
प्राणेषु = प्राणेषु
जुह्वति = क्षिपन्ति
सर्वे अपि = समे अपि
एते = इमे
यज्ञविदः = यज्ञवेत्तारः
यज्ञक्षपितकल्मषाः = यज्ञविनाशितपापाः ।

अर्थः

अन्ये योगिनः नियताहारं सेवमानः प्राणायामपरायणाः अपानादिगतिं रुद्ध्वा प्राणान् प्राणेषु जुति । एते सर्वेऽपि यज्ञं विदन्ति । तस्मादेव यज्ञेन नाशितपापाः भवन्ति ।

शाङ्करभाष्यम्

किंच-अपर इति। अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः प्राणान्वायुभेदान्प्राणेष्केव जुह्वति, यस्त यस्य वायोर्जयः क्रियत इतरान्वायुभेदांस्तस्मिञ्जुह्वतिते तत्र प्रविष्टा इव भवन्ति। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा यज्ञैर्यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषाः।।30।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अपरे_नियताहाराः...&oldid=319" इत्यस्माद् प्रतिप्राप्तम्