अपरेयमितस्त्वन्यां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चमः श्लोकः ।

पदच्छेदः

अपरा इयम् इतः तु अन्यां प्रकृतिं विद्धि मे पराम् जीवभूतां महाबाहो यया इदं धार्यते जगत् ॥ ५ ॥'

अन्वयः

महाबाहो ! इयम् अपरा । इतः मे जीवभूताम् अन्यां परां प्रकृतिं विद्धि, यया इदं जगत् धार्यते ।

शब्दार्थः

महाबाहो = अर्जुन
इयम् = असौ
अपरा = संसारबन्धनात्मिका
इतः = अस्याः
अन्याम् = भिन्नाम्
प्रकृतिं तु = शक्तिं तु
मे = मम
पराम् = प्रकृष्टाम्
जीवभूताम् = प्राणधारिणीम्
विद्धि = जानीहि
यया = यया प्रकृत्या
इदम् = एतत्
जगत् = भुवनम्
धार्यते = उह्यते ।

अर्थः

महाबाहो ! अष्टधा विभक्ता इयं मम प्रकृतिः संसारबन्धनात्मिका अस्ति । अस्याः अन्या अपि मम प्रकृतिः अस्ति । प्रकृष्टा सा एव सर्वेषां प्राणधारिणी अस्ति । तया एव एतद् जगत् धार्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अपरेयमितस्त्वन्यां...&oldid=10352" इत्यस्माद् प्रतिप्राप्तम्