अन्ये त्वेवमजानन्तः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः

अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते ते अपि च अतितरन्ति एव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

अन्वयः

अन्ये तु एवम् अजानन्तः अन्येभ्यः श्रुत्वा उपासते । श्रुतिपरायणाः ते अपि च मृत्युम् अतितरन्ति एव ।

शब्दार्थः

अजानन्तः = अविदन्तः
अन्येभ्यः = आचार्येभ्यः
उपासते = ध्यायन्ति
श्रुतिपरायणाः = श्रवणासक्ताः
अतितरन्ति = लङ्घयन्ति ।

अर्थः

अन्ये तु गुणान् जीवं प्रकृतिं च पूर्वोक्तरीत्या ज्ञातुम् अशक्नुवन्तः अपि आचार्येभ्यः तत् विज्ञाय तदुपदेशस्य च श्रवणे नितरामासक्ताः मृत्युरूपमिमं संसारं शनैः शनैः तरन्ति, न शीघ्रम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अन्ये_त्वेवमजानन्तः...&oldid=5264" इत्यस्माद् प्रतिप्राप्तम्