अन्ताराष्ट्रियः व्यापारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु

Storck Harbour scene.jpg

अन्ताराष्ट्रियः व्यापारः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) विभिन्नदेशेषु वस्तूनां स्वैच्छिकरूपेण आदानप्रदानाय क्रियते । व्यापारस्य स्तरद्वयं वर्तते – राष्ट्रियः व्यापारः, अन्ताराष्ट्रियः व्यापारश्च । व्यापारस्य अर्थः अस्ति यत्, विभिन्नवस्तूनां परस्परं स्वैच्छिकरूपेण आदानप्रदानम् । व्यापाराय पक्षद्वयस्य आवश्यकता वर्तते । तयोः पक्षयोः एकः वस्तूनि विक्रीणाति, अपरः क्रीणाति च । व्यापारः द्वाभ्यां पक्षाभ्यां समानरूपेण लाभकरः भवति ।[१]

ये देशाः स्वयं येषां वस्तूनाम् उत्पादनं कर्तुम् असमर्थाः सन्ति, ते तेषां वस्तूनाम् आयातं व्यापारमाध्यमेन कुर्वन्ति । यदा कस्मिंश्चित् देशे तेषां वस्तूनां मूल्यम् अधिकं भवेत्, तदा अपि वस्तूनाम् आयातः स्वल्पेन मूल्येन भवितुं शक्यते अतः व्यापारः क्रियते ।[२]

आदिमसमाजे व्यापारस्य आरम्भिकं स्वरूपं 'विनिमयव्यवस्था' आसीत् । तस्यां व्यवस्थायां वस्तूनां प्रत्यक्षरूपेण आदान-प्रदानं भवति स्म । अर्थात् वस्तूनां विनिमयः भवति स्म । यदि कुम्भकारः घटनिर्माणाय किमपि यन्त्रम् इच्छति, तर्हि तस्य अपरेऽस्मिन् पक्षे ये जनाः भवन्ति, तेभ्यः कुम्भकारस्य घटानाम् आवश्यकता भवेत् इति आवश्यकम् आसीत् । तदैव व्यापारे विनिमयः भवितुं शक्नोति स्म । घटानां, यन्त्रस्य च विनिमयः भवति । किन्तु इदानीं तु व्यापारे अधिकतमेषु स्थानेषु वस्तूनां व्यापारे धनम् एव प्रचलति ।[३]

प्रतिवर्षं जनवरी-मासे सस्यानां लवनकार्यानन्तरं गुवाहाटी-नगरात् ३५ कि. मी. दूरे जागीरॉड् इति नामके स्थले जॉन् बील्-मेला-उत्सवः भवति । अयं भारतस्य एकः एव मेला-उत्सवः अस्ति, यस्मिन् इदानीमपि विनिमयव्यवस्था वर्तते । अस्मिन् मेला-उत्सवे एकस्याः बृहत्तमायाः वणिग्वीथ्याः व्यवस्था क्रियते । तस्यां विभिन्नजनजातीनां समुदायानां जनाः वस्तूनां विनिमयं कुर्वन्ति ।[४]

रूप्यकाणां, मुद्राणां च कारणेन विनिमयव्यवस्था लुप्ता जाता । पुरा कर्गजमुद्राणां, धात्विकमुद्राणां च व्यवस्था नासीत् । अतः पुरा उच्चमूल्यानां दुर्लभवस्तूनां मूद्रारूपेण उपयोगः भवति स्म । यथा – चकमकपाषाणः, आब्सीडियन्, आग्नेयकाचः, सिंहहस्तः, व्हेल् इत्यस्य दन्ताः, श्वानदन्ताः, चर्म, केशः, अक्षताः, लवणं, लघुयन्त्राणि, ताम्रं, स्वर्णं, रजतं च ।[५]

सैलेरी इति शब्दः लैटिन्-भाषायाः सैलेरिअम् इति शब्देन निर्मितः अस्ति । तस्य अर्थः अस्ति यत् ’लवणमाध्यमेन प्रदानम्’ इति । यतः पुरा समुद्रात् लवणस्य निर्माणं न भवति स्म । केवलं खानिजैः लवणस्य निर्माणं भवति स्म । तस्मिन् काले लवणं दुर्लभं, बहुमूल्यम् च आसीत् । अतः तत् प्रदानस्य माध्यमरूपेण आसीत् ।[६]

अन्ताराष्ट्रियव्यापारस्य इतिहासः

प्राचीने काले दैर्घ्यान्तरं वस्तूनां परिवहनं कष्टपूर्णम् आसीत् । अतः व्यापारः स्थानीयेषु वणिग्वीथिषु एव भवति स्म । तदा जनाः स्वेषां संसाधनानाम् उपयोगं मूलभूतावश्यकताभ्यः एव कुर्वन्ति स्म । यथा – भोजनं, वस्त्रम् इत्यादयः । तदा धनिकाः एव आभूषणानि, बहुमूल्यानि परिधानानि च क्रीणन्ति स्म । तेन कारणेन विलासवस्तूनां व्यापारस्य आरम्भः जातः ।[७]

रेशम-मार्गः दैर्घ्यकालस्य व्यापारस्य एकम् आरम्भिकम् उदाहरणम् अस्ति । तस्य मार्गस्य दैर्घ्यं ६००० कि. मी. वर्तते । स मार्गः रोम-देशं चीन-देशेन सह योजयति । व्यापारिणः चीन-देशे निर्मितस्य कौशेयस्य(Silk), रोम-देशे निर्मितस्य ऊर्णायाः (Wool), बहुमूल्यधातूनां, विभिन्नबहुमूल्यवस्तूनां च परिवहनं कुर्वन्ति स्म ।[८]

रोमन-साम्राज्यस्य विनाशानन्तरं त्रयोदशशताब्द्यां यूरोप-देशस्य वाणिज्ये वृद्धिर्जाता । समुद्रमार्गिणां युद्धयानानां विकासेन यूरोप् एशिया इत्येतयोः मध्ये व्यापारे वृद्धिरभवत् । तेन कारणेन अमेरिका-देशः अन्विष्टः ।

पञ्चदशशताब्दितः एव यूरोपीय-उपनिवेशवादस्य आरम्भः जातः । वैदेशिकवस्तूनां व्यापारेण सह दासव्यापारनामकस्य एकस्य नूतनव्यापारस्वरूपस्य उदयो जातः । अस्मिन् व्यापारे दासजनानां विक्रयः भवति । धनिकाः स्वस्य दासजनानाम् अधिकमूल्यं दत्त्वा तान् क्रीणन्ति स्म । तेन कारणेन दासपरिवारजनाः स्वजनेभ्यः पृथग्भवन्ति स्म ।[९]

पुर्तगालि, डच्, स्पेनिश्, आङ्ल इत्येतैः जनैः आफ्रीका-मूलवासिनः स्थानं परिवर्तितम् । नूतने अन्विष्टे अमेरिका-देशे उद्यानेषु श्रमकार्यार्थम् आफ्रीका-मूलवासिनां परिवहनं कृतम् । २०० अधिकवर्षपर्यन्तम् अपि दासव्यापारः अभवत् । तेन व्यापारेण लाभः अपि अधिकः सञ्जातः ।[१०]

औद्योगिक्याः क्रान्तेः अनन्तरम् अपक्ववस्तूनाम् अभियाचना वर्धिता । यथा – धान्यानि, मांसम्, ऊर्णा इत्यादयः । किन्तु एतेषां वस्तूनां मूल्ये ह्रासः अभवत् । औद्योगिकैः देशैः अपक्ववस्तूनाम् आयातः कृतः । तदनन्तरम् अनौद्योगिकान् देशान् प्रति सज्जवस्तूनां निर्यातः कृतः ।[११]

नवदशशताब्द्याः उत्तरार्द्धे प्राथमिकवस्तूनाम् उत्पादकप्रदेशाः अधिकमहत्वपूर्णाः नासन् । तेन कारणेन औद्योगिकाः देशाः परस्परं क्रेतारः अभवन् ।[१२]

प्रथमद्वितीयविश्वयुद्धयोः प्रथमवारं देशैः व्यापारस्य विक्रयकरणे प्रतिबन्धः कृतः । विश्वयुद्धानन्तरं “व्यापार व शुल्क हेतु सामान्य समझौता(GATT)” इत्येतया संस्थया शुल्कस्य न्यूनीकरणे साहाय्यं कृतम् आसीत् ।[१३]

किमर्थम् अन्ताराष्ट्रियव्यापारस्य अस्तित्वम्

उत्पादने वैशिष्ट्यं वर्तते । अतः अन्ताराष्ट्रियव्यापारस्य महत्वं वर्तते । अनेन विश्वस्य अर्थव्यवस्थायाः अपि विकासः भवति । आधुनिके समये विश्वस्य आर्थिकसङ्घटनस्य आधारः व्यापारः अस्ति । अयं देशानां वैदेशिकनीत्या सह सम्बद्धः अस्ति । येषु देशेषु विकसितपरिवहनं, सञ्चारः च वर्तते, ते देशाः अन्ताराष्ट्रियव्यापारे लाभं प्राप्नुवन्ति एव ।[१४]

अन्तारष्ट्रियव्यापास्य आधारः

राष्ट्रियसंसाधनेषु भिन्नता

भूविज्ञानेन, मृदाजलवाय्वोः भिन्नतायाः कारणेन च विश्वस्य राष्ट्रियसंसाधनानि भिन्नानि सन्ति ।

  • भौगोलिकसंरचनया एव खानिजसंसाधनानाम् आधारः निर्धारितः भवति । धरातलीयाः भिन्नताः सस्यानां, पशूनां च वैविध्यं निर्धारितं कुर्वन्ति । तासु भूमिषु कृषिकार्यार्थं विशेषता भवति । पर्वताः पर्यटकान् आकर्षयन्ति । तेन कारणेन पर्यटने वृद्धिर्भवति ।
  • खानिजसंसाधनानि सम्पूर्णे विश्वस्मिन् असमानरूपेण विस्तृतानि सन्ति । खानिजसंसाधनानाम् उपलब्ध्या औद्योगिकविकासस्य आधारः दीयते ।
  • केषुचित् क्षेत्रेषु जीवितपादपाः जलवायुना एव प्रभाविताः भवन्ति । विभिन्नानाम् उत्पादनानां वैविध्यम् अपि जलवायुना एव निश्चीयते । यथा – ऊर्णायाः उत्पादनं शीतक्षेत्रेषु एव भवितुं शक्नोति, कदलीफलस्य, रबड, कहवा इत्यादीनाम् उत्पादनं कटिबन्धीयक्षेत्रेषु एव भवितुं शक्नोति ।[१५]

जनसङ्ख्या

विभिन्नदेशेषु जनसङ्ख्यायाः वैविध्येन अपि वस्तूनां प्रकारः, मात्रा च प्रभाविता भवन्ति ।

संस्कृतिः

विशिष्टसंस्कृतिषु कलायाः, हस्तशिल्पस्य च विभिन्नरूपाणि विकसितानि सन्ति । यथा - चीन-देशे चीनीमृत्तिकायाः पात्राणि (पॉर्सलिन्), ईरान्-देशस्य कालीन, उत्तरी अमेरिका-महाद्वीपस्य चर्मोद्योगः, इण्डोनेशिया इत्यस्य बटिक्-वस्त्राणि, बहुमूल्यानि हस्तशिल्पानि च ।[१६]

जनसङ्ख्यायाः आकारः

येषु देशेषु जनसङ्ख्या अधिका भवति तेषु व्यापारः अपि अधिकः भवति । जनसङ्ख्यायाः जीवनस्तरेण अधिकगुणवत्तायुतानाम् उत्पादनानाम् अभियाचना निश्चीयते । यतः निम्नस्तरे केचित् जनाः एव बहुमूल्यवस्तूनि क्रेतुं समर्थाः भवन्ति ।[१७]

आर्थिकविकासस्य अवस्था

देशानाम् आर्थिकविकासस्य विभिन्नासु अवस्थासु व्यापारस्य वस्तूनां स्वरूपं, प्रकारः च परिवर्तते । कृषिदृष्ट्या महत्वपूर्णदेशेषु विनिर्मितवस्तुभ्यः कृष्युत्पादनानां विनिमयः क्रियते । किन्तु औद्योगिकाः देशाः यन्त्राणां, निर्मितोत्पादनानां च निर्यातं कुर्वन्ति । खाद्यान्नस्य अपक्वपदार्थानाम् आयातम् अपि कुर्वन्ति ।[१८]

विदेशीनिवेशमर्यादा

विदेशीनिवेशेन विकासिदेशेषु व्यापारस्य वृद्धिर्भवति । विकासिदेशेषु उद्योगानां विकासेन औद्योगिकाः देशाः खाद्यपदार्थानां, खानिजानां च आयातं निश्चिन्वन्ति । स्वनिर्मितोत्पादनानां वणिग्विथ्याः निर्माणं कुर्वन्ति । इदं व्यापारचक्रं विश्वस्य देशानां मध्ये व्यापारस्य परिमाणे वृद्धिं करोति ।[१९]

परिवहनम्

पुरातने काले परिवहनस्य पर्याप्तसाधनानि न आसन् । तेषाम् अभावेन स्थानीयक्षेत्रेषु व्यापारः सङ्कुचितः आसीत् । बहुमूल्यवस्तूनाम् एव दैर्घ्यान्तरे व्यापारः क्रियते स्म ।[२०]

अन्ताराष्ट्रियव्यापारस्य महत्वपूर्णः पक्षः

अन्ताराष्ट्रियस्य व्यापारस्य त्रयः महत्वपूर्णाः पक्षाः सन्ति । परिमाणं, प्रखण्डीयं संयोजनं, व्यापारस्य दिशा च ।

व्यापारस्य परिमाणम्

येषां वस्तूनां व्यापारः भवति, तेषां वस्तूनां वास्तविकः भारः परिमाण इति उच्यते । किन्तु व्यापारिणां सेवानां भारस्य मानम् अशक्यं भवति । अतः तासां व्यापारिणां सेवानां मूल्यम् एव व्यापारस्य परिमाणम् इति कथ्यते ।[२१]

व्यापारस्य संयोजनम्

गतशताब्द्यां विभिन्नदिशैः विभिन्नवस्तूनाम् आयातः निर्यातश्च अभवत् । तेषां वस्तूनां, सेवानां च प्रकारेषु परिवर्तनम् अभवत् । गतशताब्द्याः आरम्भे प्राथमिकोत्पादनानां व्यापारः प्रधानः आसीत् । तदनन्तरं विनिर्मितवस्तूनां प्राधान्यम् अभवत् । साम्प्रते काले विश्वव्यापारस्य अधिकांशः भागः विनिर्माणक्षेत्रस्य आधिपत्ये अस्ति ।[२२]

विश्वस्य आयातः निर्यातश्च[२३](US दशलक्ष डॉलर्-मुद्रायां)

  • १९५५ तमे वर्षे सकलव्यापारिकवस्तूनां ९५,०००$ निर्यातः, ९९,०००$ आयातः च अभवत् ।
  • १९६५ तमे वर्षे सकलव्यापारिकवस्तूनां १,९०,०००$ निर्यातः, १,९९,०००$ आयातः च अभवत् ।
  • १९७५ तमे वर्षे सकलव्यापारिकवस्तूनां ८,७७,०००$ निर्यातः, ९,१२,०००$ आयातः च अभवत् ।
  • १९८५ तमे वर्षे सकलव्यापारिकवस्तूनां १९,५४,०००$ निर्यातः, २०,१५,०००$ आयातः च अभवत् ।
  • १९९५ तमे वर्षे सकलव्यापारिकवस्तूनां ५१,६२,०००$ निर्यातः, ५२,९२,०००$ आयातः च अभवत् ।
  • २००५ तमे वर्षे सकलव्यापारिकवस्तूनां १,०३,९३,०००$ निर्यातः, १,०७,५३,०००$ आयातः च अभवत् ।

यन्त्राणां, परिवहनस्य उपकरणानाम्, इन्धनस्य, खननोत्पादनानां, कार्यालयस्य उपकरणानां, दूरसञ्चारस्य उपकरणानां, रासायनिकपदार्थानां, वाहनानां, कृषेः उत्पादनानां, लौहस्य, वस्त्राणां, व्यापारिकवस्तूनां च समूहः एकस्य बृहद्व्यापारस्य संरचनां करोति । सेवाक्षेत्रे व्यापारः, विनिर्माणक्षेत्रस्य प्राथमिकोत्पादनानां व्यापारः इत्येतयोः मध्ये भिन्नता वर्तते । यतः सेवानाम् अमर्यादितविस्तारः क्रियते ।[२४]

व्यापारस्य क्षेत्रम्

ऐतिहासिकपरम्परानुसारं वर्तमानकालिकाः विकासिदेशाः बहुमूल्यवस्तूनां, शिल्पानां च निर्यातं कुर्वन्ति। एकोनविंशतितमायां शताब्द्यां व्यापारस्य क्षेत्रे परिवर्तनम् अभवत् । यूरोप्-महाद्वीपस्य देशाः विनिर्माणवस्तूनां निर्यातं कुर्वन्ति स्म । यूरोप्-महाद्वीपः, संयुक्तराज्य-अमेरिका-देशश्च एतौ द्वौ व्यापारिकौ मित्रदेशौ स्तः । विनिर्माणवस्तूनां व्यापारे एतौ द्वौ अग्रण्यौ अपि स्तः । तदा जापान्-देशः अपि व्यापारिकदेशेषु तृतीयः आसीत् । विंशतितमायाः शताब्द्याः उत्तरार्द्धे विश्वव्यापारस्य पद्धत्यां तीव्रपरिवर्तनानि जातानि । यूरोप्-महाद्वीपस्य उपनिवेशाः समाप्ताः अभवन् । किन्तु भारत-देशस्य, चीन-देशस्य, अन्येषां विकासिदेशानां प्रतिस्पर्धाः आरब्धाः । व्यापारयोग्यवस्तूनां प्रकारे प्रकृतौ अपि परिवर्तनानि जातानि ।[२५]

व्यापारस्य सन्तुलनम्

व्यापारस्य सन्तुलनेन देशानां वस्तूनां परस्परम् आयातस्य, निर्यातस्य, सेवानां च परिमाणः ज्ञायते । यदि आयातस्य मूल्यं देशस्य निर्यातमूल्यस्य अपेक्षया अधिकं भवेत्, तर्हि देशस्य व्यापारस्य सन्तुलनम् ऋणात्मकं प्रतिकूलं वा अस्ति इति ज्ञायते । यदि निर्यातस्य मूल्यं देशस्य आयातमूल्यस्य अपेक्षया अधिकं भवेत्, तर्हि देशस्य व्यापारस्य सन्तुलनं धनात्मकम् अनुकूलं वा अस्ति इति ज्ञायते ।[२६]

व्यापारसन्तुलने ऋणात्मकसन्तुलनम् अर्थात् देशः वस्तूनां क्रयणे विक्रयणस्य तुलनायाम् अधिकं व्ययं करोति इति । तेन कारणेन वित्तीयसञ्चयस्य समाप्तेः सूचना प्राप्यते ।[२७]

अन्ताराष्ट्रियव्यारस्य प्रकाराः

अन्ताराष्ट्रियव्यापारस्य प्रकारद्वयं वर्तते । द्विपार्श्विकः व्यापारः, बहुपार्श्विकः व्यापारः च ।

द्विपार्श्विकः व्यापारः

अयं व्यापारः द्वयोः देशयोः परस्परं क्रियते । तौ देशौ निर्दिष्टवस्तूनां व्यापारे परस्परं समर्थनं दत्तः । उदारहणम् अस्ति यत् – एकः देशः अपक्ववस्तूनां व्यापारे स्वस्य समर्थनं ददाति यत्, अपरः देशः निर्दिष्टानां वस्तूनां क्रयणं करिष्यति इति । [२८]

बहुपार्श्विकः व्यापारः

अस्य व्यापारस्य नाममात्रेण ज्ञायते यत्, अस्मिन् व्यापारे बहवः देशाः परस्परं सम्बद्धाः भवन्ति । ते देशाः अनेकैः देशैः सह व्यापारं कर्तुं शक्नुवन्ति । [२९]

मुक्तव्यापारस्य स्थितिः

व्यापाराय निर्मितानाम् अर्थव्यवस्थानाम् उद्घाटनाय कृतः व्यापारः मुक्तव्यापारः उच्यते । अस्मिन् व्यापारे व्यापारिकावरोधानां निवारणं भवति । मुक्तव्यापारेण प्रतिस्पर्धकेभ्यः गृहोद्योगानां, सेवानां च व्यापारस्य अनुज्ञा प्रदीयते ।[३०] परिवहनतन्त्रेण सञ्चारतन्त्रेण च दूरस्थक्षेत्रान् प्रति तीव्रगतिना वस्तूनां यातायातः भवति ।

विश्व-व्यापार-सङ्घटनम् (WTO)

१९४८ तमे वर्षे विश्वस्मै अन्यबाधाभ्यः मुक्तिं दातुं कैश्चित् देशैः जनरल् एग्रीमेण्ट् ऑन् ट्रेड् एण्ड् टैरिफ् (GATT) इत्यस्याः संस्थायाः रचना कृता । १९९४ तमे वर्षे विभिन्नेषु देशेषु मुक्तनिष्पक्षव्यापारम् उन्नेतुम् एकस्याः स्थायिसंस्थायाः निर्माणस्य निश्चयः विश्व-व्यापार-सङ्घटनस्य सदस्यदेशैः कृतः । तदा १९९५ तमस्य वर्षस्य जनवरी-मासात् जनरल् एग्रीमेण्ट् ऑन् ट्रेड् एण्ड् टैरिफ् (GATT) इति अस्याः संस्थायाः विश्व व्यापार सङ्गचनम् (WTO) इत्यस्यां रूपान्तरणम् अभवत् ।[३१]

विश्व व्यापार सङगटन (WTO) इति एकम् अन्ताराष्ट्रियसङ्घटनम् अस्ति । अस्य सङ्घटनस्य मुख्यालयः स्विटजरलैण्ड्-देशे जिनेवा-महानगरे स्थितः अस्ति । २००५ तमस्य वर्षस्य दिसम्बर-मासे अस्मिन् सङ्घटने १४९ देशाः सम्मिलिताः आसन् । तेषु देशेषु सदस्यदेशेषु भारत-देशः अन्यतमः आसीत् । अनेन सङ्घटनेन वैश्विकनियमानां व्यवहारः भवति । इदं सङ्घटनं विश्वस्य व्यापारतन्त्राय नियमान् रचयति, सदस्यदेशानां विवादान् अपि निवारयति । दूरसञ्चारस्य सेवाः, वित्तकोषालयस्य (Bank) सेवाः, बौद्धिकसम्पदाम् अधिकारस्य व्यापारश्च अपि विश्वव्यापारसङ्घटनस्य कार्येषु अन्तर्भवति । मुक्तव्यापारेण, अर्थव्यवस्थानां भूमण्डलीकरणस्य प्रभावैः च ये जनाः त्रस्ताः सन्ति, ते सर्वे अस्य सङ्घटनस्य आलोचनां, विरोधं च कुर्वन्ति । मुक्तव्यापारेण सामान्यजनानां जीवने आर्थिकवृद्धिः न भवति इति तर्कः अस्ति । अनेन व्यापारेण धनिकाः अधिकधनं प्राप्नुवन्ति । अतः निर्धनधनिकयोः अन्तरं वर्धते । यतः विश्व व्यापार सङ्गठन इत्यस्मिन् प्रभावशालिनः देशाः केवलं स्वेषां वाणिज्यहितेषु एव ध्यानं ददति ।[३२]

प्रादेशिकव्यापारसमूहाः

देशानां मध्ये व्यापारस्य वृद्ध्यर्थं, व्यापारशीलदेशेषु व्यापारप्रतिबन्धानां निवारणार्थं च प्रादेशिकव्यापारसमूहानां रचना कृता । साम्प्रते १२० प्रादेशिकव्यापारसमूहाः विश्वस्य ५२% व्यापारं कुर्वन्ति । वैश्विकसङ्घटनानाम् असफलतायाः कारणेन तेषां प्रादेशिकव्यापारसमूहानां विकासः अभवत् ।[३३]

एते प्रादेशिकसमूहाः सदस्यदेशेषु व्यापारशुल्कम् अपाकुर्वन्ति, मुक्तं व्यापारं वर्धयन्ति च । किन्तु भविष्यत्काले विभिन्नानां व्यापारिकसमूहानां मध्ये मुक्तव्यापारः कठिनः भविष्यति ।

विश्वस्मिन् बहवः प्रादेशिकसमूहाः भवन्ति । तेषु केचित् प्रमुखप्रादेशिकव्यापारसमूहाः निम्नलिखिताः सन्ति । तेषां स्थापना, मुख्यालयः, सदस्यदेशाः इत्यादि सङ्क्षिप्तपरिचयः प्रदत्तः अस्ति ।[३४]

आसियान् (ASEAN)

अस्य समूहस्य मुख्यालयः इण्डोनेशिया-देशस्य जकार्ता-महानगरे वर्तते । १९६७ तमस्य वर्षस्य ऑगस्ट्-मासे अस्य स्थापना कृता आसीत् । अस्मिन् समूहे ब्रुनेई, इण्डोनेशिया, मलेशिया, सिङ्गापुर, थाईलैण्ड्, वियतनाम् इत्यादीनि सदस्यराष्ट्राणि सन्ति ।[३५]

सी. आई. एस्. (C.I.S.)

अस्य समूहस्य मुख्यालयः मिन्सक्, बेलारूस् वर्तते । अस्मिन् समूहे आरमीनिया, अजरबैजान्, बेलारूस्, जॉर्जीया, कजाखस्तान्, खिरगिस्तान्, मॉल्डोवा, रूस्, ताजीकिस्तान्, तुर्कमेनिस्तान्, यूक्रेन्, उजबेकिस्तान् इत्यादीनि सदस्यराष्ट्राणि सन्ति ।[३६]

यूरोपीय सङ्घ (E. U.) [३७]

अस्य समूहस्य मुख्यालयः ब्रूसेल्स्, बेल्जियम् वर्तते । अस्य समूहस्य स्थापना १९५७ तमस्य वर्षस्य मार्च-मासे अभवत् । अस्मिन् समूहे ऑस्ट्रेलिया, बेल्जियम्, डेनमार्क्, फ्रान्स्, फिनलैण्ड्, आयरलैण्ड्, इटली, नीदरलैण्ड्, लक्जमबर्ग्, पुर्तगाल्, स्पेन्, स्वीडन्, यूनाइटेड् किङ्गडम् इत्यादीनि सदस्यराष्ट्राणि सन्ति ।

लेटिन् अमेरिकन् इण्टीग्रेशन् एसोसिएशन् (L.A.I.A.) [३८]

अस्य समूहस्य मुख्यालयः मॉण्टेविडियो उरुवे वर्तते । अस्य समूहस्य स्थापना १९६० तमे वर्षे अभवत् । अस्मिन् समूहे अर्जेण्टाइना, वोलीविया, ब्राजील्, कोलम्बिया, इक्वाडोर्, मैक्सिको, पराग्वे, पेरू, उरुग्वे, वेनेजुएला इत्यादीनि सदस्यराष्ट्राणि सन्ति ।

नॉर्थ अमेरिकन् फ्री ट्रेड् एसोसिएशन् (N.A.F.T.A.)

अस्य समूहस्य स्थापना १९९४ तमे वर्षे अभवत् । अस्मिन् समूहे संयुक्त राज्य अमेरिका इति सदस्यराष्ट्रं वर्तते ।[३९]

ऑर्गेनाइजेशन् ऑफ् पैट्रोलियम् एक्स्पोर्टिङ्ग् कण्ट्रीज् (O.P.E.C.)

अस्य समूहस्य मुख्यालयः वियना वर्तते । अस्य समूहस्य स्थापना १९४९ तमे वर्षे अभवत् । अस्मिन् समूहे अल्जीरिया, इण्डोनेशिया, ईरान्, ईराक्, कुवैत्, लीबिया, नाइजीरिया, कतर्, सऊदी अरब, संयुक्त अरब अमीरात्, वेनेजुएला इत्याीनि सदस्यराष्ट्राणि सन्ति ।[४०]

साउथ् एशियन् फ्री ट्रेड् एग्रीमेण्ट्[४१]

अस्य समूहस्य स्थापना २००६ तमस्य वर्षस्य जनवरी-मासे अभवत् । अस्मिन् समूहे बाङ्ग्लादेश, मालदीव, भूटान्, नेपाल्, भारत, पाकिस्तान्, श्रीलङ्का इत्यादीनि सदस्यराष्ट्राणि सन्ति ।

अन्ताराष्ट्रियव्यापारसम्बद्धाः विषयाः

यदि अन्ताराष्ट्रियव्यापारः प्रादेशिकं वैशिष्ट्यम्, उत्पादनस्य उच्चस्तरम्, उच्चनिवासस्य स्तरं, वस्तूनां, सेवानां च उपलब्धिं, मूल्यानां वेतनानां च समानीकरणं, ज्ञानस्य, संस्कृतेः च प्रस्फुरणं प्रेरयेत्, तर्हि अन्ताराष्ट्रियव्यापारः राष्ट्राणां पारस्परिकस्थितौ लाभकरं भवति । यदि अन्ताराष्ट्रियव्यापारः अन्यदेशेभ्यः आधारितः भवेत्, तर्हि देशेभ्यः हानिकरः भवति ।[४२]

विश्वव्यापकेन व्यापारेण जीवनस्य अनेकाः पक्षाः प्रभाविताः भवन्ति । अनेन व्यापारेण विश्वस्य पर्यावरणं, जनानां स्वास्थ्यं, कल्याणं च प्रभावितं भवति । यथा यथा देशे अधिकव्यापाराय प्रतिस्पर्धिनां वृद्धिः जायते, तथैव उत्पादनसंसाधनानां, प्राकृतिकसंसाधनानां च उपयोगे अपि वृद्धिः भवति । तेन कारणेन सामुद्रिकं जीवनम् अपि तीव्रतया नष्टं भवति । वनानां छेदनं भवति, पेयजलस्य संस्थाभ्यः नदीनां विक्रयणं भवति । [४३]

पत्तनम्

पत्तनम् अन्ताराष्ट्रियव्यापाराय अस्माकं देशस्य प्रवेशद्वारं भवति । इदं पत्तनं पोताश्रयः अपि कथ्यते । एतेषां पत्तनानां साहाय्येन यात्रिणः जलयानानां वस्तूनां विश्वस्मिन् परिवहनं कुर्वन्ति ।[४४]

पत्तनानि जलयानेभ्यः यातायातस्य सौकर्याणि प्रददति । एतेभ्यः सौकर्येभ्यः पत्तनानाम् अधिकारिणः विभिन्नसेवानाम् आयोजनं कुर्वन्ति । कस्यचित् पत्तनस्य महत्त्वं नौका भारस्वरूपेण, बृहज्जलयानानां सङ्ख्यया च निश्चयीक्रियते । नौकाभारः पत्तनस्य पृष्ठप्रदेशस्य विकासस्य सूचकः वर्तते ।[४५]

पत्तनस्य प्रकाराः[४६]

प्रायः पत्तनानां वर्गीकरणं तेषां यातायातस्य प्रकारानुसारं क्रियते ।

नौभारानुसारं पत्तनस्य प्रकाराः अधः लिखिताः सन्ति ।

औद्योगिकं पत्तनम्

इदं पत्तनं महाविक्रयनौकाभाराय विशिष्टम् अस्ति । एतेषु पत्तनेषु धान्यानां, शर्करायाः, अयस्कस्य, तैलस्य, रसायनस्य च यातायातं भवति ।[४७]

वाणिज्यिकं पत्तनम्

एतानि पत्तनानि सामान्यनौकाभारस्य उत्पादनानां, विनिर्मितवस्तूनां च यातायातं कुर्वन्ति । एतेषु पत्तनेषु यात्रिणां यातायातम् अपि भवति ।[४८]

विस्तृतं पत्तनम्

एतानि पत्तनानि अधिकमात्रायां सामान्यनौकाभारस्य महाविक्रये आयोजनं कुर्वन्ति । विश्वस्य अधिकतमानि पत्तनानि विस्तृतपत्तनानां स्वरूपे विभक्तानि सन्ति ।[४९]

अवस्थित्याधारेण पत्तनस्य प्रकाराः

अन्तर्देशीयपत्तनम्

एतानि पत्तनानि समुद्रतटात् दूरं स्थितानि भवन्ति । नदीमाध्यमेन, कूल्यामाध्यमेन च समुद्रैः सह एतानि पत्तनानि सम्बद्धानि सन्ति । एतानि पत्तनानि वर्गतलयुतैः जलयानैः एव गन्तुं योग्यानि सन्ति । मानचेस्टर् इति एतन्नगरम् एकस्या कूल्यया सह सम्बद्धं वर्तते । मेम्फिस् इत्येतन्नगरं मिसीसिपी-नद्यां घोषे स्थितम् अस्ति । कोलकाता-महानगरं हुगलीनद्याः तटे स्थितमस्ति । हुगली-नदी गङ्गायाः एव अपरा शाखा वर्तते ।[५०]

बाह्यपत्तनम्

एतानि पत्तनानि गहनजलयुतानि सन्ति । एतानि पत्तनानि वास्तविकपत्तनेषु सुदूरं निर्मितानि भवन्ति । यानि बृहज्जलयानानि भवन्ति, तानि जलयानानि पत्तनं प्राप्तुम् असमर्थानि भवन्ति । तानि जलयानानि बाह्यपत्तनानि प्रानुवन्ति । एथेन्स्, यूनान् इत्येतयोः पत्तनयोः पिरेइअस् नामकं बाह्यपत्तनं वर्तते ।[५१]

विशिष्टकार्याधारितानां पत्तनानां प्रकाराः

तैलपत्तनम्

एतानि पत्तनानि तैलस्य प्रक्रमणस्य, नौकापरिवहनस्य च कार्यं कुर्वन्ति । तेषु पत्तनेषु किञ्चित् टैङ्कर्-पत्तनं, किञ्चित् तैलशोधन-पत्तनं च वर्तते । वेनेजुएला-देशे माराकाइबो, ट्युनिशिया-देशे एस्सखीरा, लेबनान्-देशे त्रिपोली च टैङ्कर्-पत्तनम् अस्ति । पर्शिया-देशस्य गर्ते अबादान्-नामकं तेलशोधनपत्तनं वर्तते ।[५२]

मार्गपत्तनम् (विश्रामपत्तनम्)

एतानि पत्तनानि समुद्रमार्गेषु विश्रामकेन्द्ररूपेण विकसितानि सन्ति । जलयानानि इन्धनं, जलं, खाद्यसामग्रीं च आनेतुं तत्र गच्छन्ति । समयान्तरे तानि पत्तनानि वाणिज्यिकपत्तनेषु परिवर्तितानि अभवन् । अदन्, हानोलूलू, सिङ्गापुर् च मार्गपत्तनं वर्तते ।[५३]

पैकेट् स्टेशन्

एतानि पत्तनानि फेरी-पत्तनम् इत्यपि कथ्यते । एतैः पत्तनैः लघ्वन्तराले जलीयक्षेत्रं प्रति सन्देशानां, यात्रीणां च परिवहनं क्रियते ।[५४]

आन्त्रपो-पत्तनम्

एतेषु पत्तनेषु विभिन्नदेशेभ्यः निर्याताय वस्तूनि एकत्रीक्रियन्ते । एशिया-महाद्वीपे सिङ्गापुर-महानगरम् आन्त्रपो-पत्तनम् अस्ति । यूरोप्-महाद्वीपे रोटरडम् इति नामकम् आन्त्रपो-पत्तनं स्थितम् अस्ति ।[५५]

नौसेनापत्तनम्

एतेषां पत्तनानां सामाजिकं महत्त्वं वर्तते । एतानि पत्तनानि युद्धजलयानेभ्यः सेवाः प्रददति । तेभ्यः जलयानेभ्यः तानि पत्तनानि कार्यशालाः अपि प्रचालयन्ति । भारत-देशे कोच्चि, कारवाड इत्येते द्वे नौसेनापत्तने स्तः ।[५६]

सम्बद्धाः लेखाः

बाह्यनुबन्धाः

फलकम्:Commons


सन्दर्भः

फलकम्:Reflist फलकम्:शिखरं गच्छतु

  1. फलकम्:Cite book
  2. फलकम्:Cite book
  3. फलकम्:Cite book
  4. फलकम्:Cite book
  5. फलकम्:Cite book
  6. फलकम्:Cite book
  7. फलकम्:Cite book
  8. फलकम्:Cite book
  9. फलकम्:Cite book
  10. फलकम्:Cite book
  11. फलकम्:Cite book
  12. फलकम्:Cite book
  13. फलकम्:Cite book
  14. फलकम्:Cite book
  15. फलकम्:Cite book
  16. फलकम्:Cite book
  17. फलकम्:Cite book
  18. फलकम्:Cite book
  19. फलकम्:Cite book
  20. फलकम्:Cite book
  21. फलकम्:Cite book
  22. फलकम्:Cite book
  23. फलकम्:Cite book
  24. फलकम्:Cite book
  25. फलकम्:Cite book
  26. फलकम्:Cite book
  27. फलकम्:Cite book
  28. फलकम्:Cite book
  29. फलकम्:Cite book
  30. फलकम्:Cite book
  31. फलकम्:Cite book
  32. फलकम्:Cite book
  33. फलकम्:Cite book
  34. फलकम्:Cite book
  35. फलकम्:Cite book
  36. फलकम्:Cite book
  37. फलकम्:Cite book
  38. फलकम्:Cite book
  39. फलकम्:Cite book
  40. फलकम्:Cite book
  41. फलकम्:Cite book
  42. फलकम्:Cite book
  43. फलकम्:Cite book
  44. फलकम्:Cite book
  45. फलकम्:Cite book
  46. फलकम्:Cite book
  47. फलकम्:Cite book
  48. फलकम्:Cite book
  49. फलकम्:Cite book
  50. फलकम्:Cite book
  51. फलकम्:Cite book
  52. फलकम्:Cite book
  53. फलकम्:Cite book
  54. फलकम्:Cite book
  55. फलकम्:Cite book
  56. फलकम्:Cite book