अन्तवत्तु फलं तेषां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मक्ता यान्ति मामपि ॥ २३ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रयोविंशतितमः(१३) श्लोकः ।

पदच्छेदः

अन्तवत् तु फलं तेषां तत् भवति अल्पमेधसाम् देवान् देवयजो यान्ति मद्भक्ताः यान्ति माम् अपि ॥ २३ ॥

अन्वयः

अल्पमेधसां तेषां तत् फलं तु अन्तवत् भवति । देवयजः देवान् यान्ति । मक्ताः अपि मां यान्ति ।

शब्दार्थः

अल्पमेधसाम् = अल्पमतीनाम्
तेषाम् = भक्तानाम्
तत् फलं तु = तत् प्रयोजनं तु
अन्तवत् = विनाशि
भवति = सम्पद्यते
देवयजः = देवाराधकाः
देवान् = विविधदेवान्
यान्ति = प्राप्नुवन्ति
मक्ताः अपि = मदाराधकाः तु
माम् = माम्
यान्ति = प्राप्नुवन्ति ।

अर्थः

अल्पमतीनां भक्तानां तत् फलं तु विनाशि भवति । देवान् ये आराध्यन्ति ते तान् देवान् प्राप्नुवन्ति । ये माम् आराध्यन्ति ते तु माम् एव प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अन्तवत्तु_फलं_तेषां...&oldid=438" इत्यस्माद् प्रतिप्राप्तम्