अनूपपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

अनूपपुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अनूपपुरम् इति नगरम् ।

भौगोलिकम्

अनूपपुरमण्डलस्य विस्तारः ३,७४७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कोरियामण्डलं, पश्चिमे उमरियामण्डलम्, उत्तरे शहडोलमण्डलं, दक्षिणे डिण्डोरीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् अनूपपुरमण्डलस्य जनसङ्ख्या ७,४९,२३७ अस्ति । अत्र ३,७९,११४ पुरुषाः, ३,७०,१२३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.३०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६ अस्ति । अत्र साक्षरता ६७.८८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- १ अनूपपुरम् २ जैठारी ३ कोतमा ४ पुष्पराजगढ ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले वन्यविस्तारः अधिकः यत्र वरदारुः, ’सराई’, ’शीशम’ इत्यादयः वृक्षाः दृश्यन्ते । एतानि एव अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखानि वन्योत्पादनानि सन्ति । अस्मिन् मण्डले १०६ यन्त्रागाराः सन्ति । मदिरायाः निर्माणे महुवानामकस्य पुष्पस्य उपयोगः अस्मिन् मण्डले भवति इति विशेषः ।

वीक्षणीयस्थलानि

अमरकण्टकम्

अमरकण्टक-नगरम् अनूपपुरात् ७१ कि. मी. दूरे अस्ति । भगवतः शिवस्य, तस्य पुत्र्याः च कथा अत्र प्रचलिता अस्ति । नर्मदा एतन्नगरं परितः प्रवहति । अस्मिन् नगरे नर्मदामातुः द्वादशाधिकानि मन्दिराणि सन्ति । एतन्नगरं परितः वन्यविस्तारः अपि वर्तते । अतः अत्र अनेकाः औषधवृक्षाः सन्ति, यथा- ब्राह्मी, तेजराजः, भोजराजः, जटाशङ्करी, अष्टगन्धा इत्यादयः ।

नर्मदामातामन्दिरम्

नर्मदामातुः मन्दिरे एकः कुण्डः अस्ति । अयं कुण्डः नर्मदानद्याः प्रवाहेन निर्मितः जातः । इदं मन्दिरम् अमरकण्टके बहुमहत्वपूर्णमस्ति । तत्र सतीदेव्याः एकं मन्दिरम् अस्ति । तस्मिन् पार्वत्याः सुन्दरा प्रतिमा अस्ति ।

कपिलधारा

इदं स्थलं नर्मदायाः उद्गमस्थानात् अमरकण्टकात् ८ कि. मी. दूरे अस्ति । अत्र १०० ’फीट’ उन्नतः जलप्रपातः अस्ति । इदं बहुरमणीयस्थलम् अस्ति ।

सर्वोदयजैनमन्दिरम्

अस्य मन्दिरस्य निर्माणम् अधुना प्रचलति । वज्रचूर्णलोहाभ्यां विना एव इदं मन्दिरं निर्मीयमाणम् अस्ति इति विशेषः । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://anuppur.nic.in/
http://www.bharatbrand.com/english/mp/districts/Anuppur/Anuppur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अनूपपुरमण्डलम्&oldid=10640" इत्यस्माद् प्रतिप्राप्तम्