अनुसन्धानस्य प्रकाराः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

अनुसन्धानस्य प्रकाराः (Types of Research) अनुसन्धानस्य विविधान् प्रकारान् बोधयन्ति। भारतीयासु भाषासु आङ्गलस्य रिसर्ज शब्दस्य स्थाने तदर्थबोधाय अनुसंधानम् अनुशीलनम् गवेषणा शोधः संशोधनम् इत्यादयो विविधाः शब्दाः प्रयुज्यमाना उपलभयन्ते । एतेषु व्युत्पत्त्यर्थदृष्ट्या अनुसन्धानंशब्दो मूलशब्दार्थं सर्वाधिकं निर्वहति । अतः मुलशब्दस्य सर्वीधिकनिकटः । अत्र हि रि रनुपर्यायः सर्चः सन्धानार्थकश्चेति रिसर्चशब्दार्थमनुसन्धानशब्दो यथायथं प्रकटयति।भाषा साहित्यक्षेत्रे शोधस्य सङ्गनिरुपणं विद्वद्भिः बहूधा कृतमस्ति । मानवानां सत्यं तथ्यमाविष्कर्तुं .यद् महती इच्छा आसीत् , इत्यप्रमाणं समुपलभ्यते ईशावास्योपनिषदि

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।।

अनुसन्धानस्य परिभाषा (Definition of Research)

1.    नवीनज्ञानार्जनाय प्रणालीबद्धप्रयास एव अनुसन्धानम्

(Research is a systematized effort to gain new  knowledge )

2.    कस्या अपि समस्यायाः सुसमाधानाय क्रमबद्धशुद्धचिन्तनं  विशिष्टोपकरणस्य प्रयोगाय एकः श्रेष्ठविधि एव अनुसन्धानम् ।

(Research is simply a systematic and refined technique of thinking, employing specialized tools and procedures in order to obtain a more adequate solution of a problem.)

3.    समस्यानां समाधानाय व्यवस्थियतरुपेण बौद्धिकरीत्या वैज्ञानिकविधेः प्रयोग अर्थप्रकाशश्च अनुसन्धानमिति कथ्यते ।

(Research is the systematic and scholarly application of the scientific method interpreted in the broader sense to the solution of problems.)

अनुसन्धानप्रकारभेदानां निर्णयः प्रकारद्वयेन-कर्तुं शक्यते – (1)अनुसन्धेयविषयाणामाधारेण (2) अनुसन्धानपद्धतीनामाधारेण च । संस्कृतवाङ्मयस्य शिक्षातन्त्रान्तर्गतत्वेन सामान्यतः सप्तविषया आगच्छन्तिः – (1) व्याकरणं तथा भषाशास्त्रम् (2) दर्शनम् (3) धर्मशास्त्रकर्मकाण्डशास्त्रे (4) ज्योतिर्विद्या (5)  काव्यशास्त्रम्  (6) बैदिकसाहित्यम् (7) काव्यञ्च । अतो विषयक्रमेण संस्कृतानुसन्धानस्य सप्तप्रकारभेदा भवितुं शक्नुवन्ति ।

1.  तुलनात्मकमध्यनम्  (Comparative Study)

2.  विमर्शात्मकमध्यनम् (Critical Study)

3. सर्वेक्षणम्  (Survey Research)

4.  अन्तश्शास्त्रीयमध्यनम् (Inter- disciplinary Study)

5.  विश्लेषणात्मकमध्यनम् (Analytical Study)

6.  विशिष्टमध्यनम् (Special Study)

(1)  तुलनात्मकमध्यनम्  (Comparative Study)

         संस्कृतभाषासाहित्यक्षेत्रे इदानिं तुलनात्मक-मध्यनमाधारीकृत्य अनेके शोधप्रबन्धाः प्रस्तुताः सन्ति । प्रथमं तु १९११ ख्रिष्टाब्दे फ्लोटेनस्विश्वविद्यालये एल्. पि. तेस्सितोरीमहोदयः रामचरितमानसेन सह रामायणस्य तुलनात्मकमध्यनम् इति विषये शोधप्रबन्धमुपस्थापितवान् इति ज्ञायते । इदानीं तु मूलसंस्कृतकाव्यनाटकादीनां तुलनात्मकमध्ययनं तत्र तत्र विश्वविद्यालयेषु विधीयते ।

तुलनात्मकामध्ययनेन उभयोः साहित्ययोः महत्त्वं प्रख्यापितं भवति । तुलनात्मकशोधप्रबन्धप्रस्तुतावसरे शोधकर्ता सर्वथा यत्नवान भवेत् यत् तुलनीययोः साहित्ययोः आधारः समानः भवेत् तुलनीयक्षेत्रस्य परिसरः स्पष्टः स्यात् विश्लेषणपद्धत्या तुलना प्रतिस्तरं विहिता स्यात सुक्ष्मेक्षिकया तुलना समानपरिसरविशिष्टस्य क्षेत्रस्य मध्ये भवेदिति च ।

(2)  विमर्शात्मकमध्यनम् (Critical Study)

संस्कृतशास्त्रपरंपरायां समालोचनात्मकम् अध्ययनम् आवहमानकालतः प्रचलति । उदाहरणतः काव्यशस्त्रस्य इतिहाससमीक्षया जायते यत् विशेषतः ध्वनिसिद्धान्तात् परम् अभिनवगुप्तमम्मट- विश्वनाथ- विद्याधर- पण्डितराजजगन्नाथप्रभृतयः आलंकारिकाः काव्यतत्तवमाश्रित्य समालोचनात्मकमध्ययनं वा भट्टलोल्लट- श्री शंकुक- भट्टनायक- अभिनवगुप्तपादैः स्वस्वप्रतिभानुसारं विहितम् । अतः शोधप्रबन्धप्रस्तुत्यवसरे समालोचनात्मकमध्ययनं किमपि नुतनत्वम् उद्भावयति । कारणं तत्र तथ्यानां पुनः पुनः निरीक्षणेन सह सावधानतया विश्लेषणं क्रियते । अनेन शोधसन्दर्भस्य मौलिकत् सारवत्ता च संसिद्धयति ।

(3) सर्वेक्षणपद्धतिः (Survey Research)

अनया पद्धत्या कस्यचित् कालखण्टस्य व्यवस्थाविशेषस्य वा क्रमबद्धतया विवरणमुपस्थापयितुं शक्यते । विशेषतः शिक्षाक्षेत्रे समाजशास्त्रे अर्थशास्त्रे भाषाविज्ञानादिषु वा सर्वेक्षणद्वारा तद्गततथ्यं निर्दुष्टमुपस्थापयन्ति । संस्कृतसाहित्यक्षेत्रेऽपि कस्यचित् काव्यविशेषस्य समीक्षावसरे सर्वेक्षणं कर्त्तु शक्ययते । यथा गङ्गवंशानुचरितमहाकाव्यस्य शोधकर्मणि गङ्गवंशीयराज्यशासनकालस्य सर्वेक्षणं कर्त्तुमर्हति शोधकर्त्ता । तेषां शासनकाले अस्माकं राज्यस्य सांस्कृतिकी स्थितिः जनानां प्रवृत्तिः संस्कृतभाशायाः प्रगतिश्च कथमासीदिति निर्णेतुं शक्यते । सर्वेक्षणपद्धतिनिमित्तं शोधकर्त्ता अधिकं यत्नवान् भवेत् । भषाविज्ञाननक्षेज्ञे यदि सर्वेक्षणं क्रियते तदा क्षेत्रकार्ये Field Work  सम्यग् भवेत् । निर्दिष्टक्षेत्रस्य भाषायाः उपरि यदि सर्वेक्षणमपेक्षते तदा तत्रत्यजनैः सह संपर्कः स्थापनियः तस्मिन् स्थाने व्यवह्रतायाः भाषायाः श्रवणं करणीयम् विविधैः उपायैः तथ्यं संगृह्य क्रमबद्धतया विवरणं प्रस्तूय सिद्धान्तः उपस्थानीयः भवति ।

(4) अन्तश्शास्त्रीयमध्यनम् (Inter- disciplinary Study)

इयमपेक्षीकृतगाम्भीर्या पद्धतिरस्ति । अत्र चानुसन्धातुध्यार्नं कवौ कृतौ वा केन्द्रितं तिष्ठति तथा च स तस्य विविधानां साहित्यकं पक्षाणां साङ्गोपाङ्गविवेचनं प्रसस्तुतीकरोति । इदञ्चाध्ययनमनेकप्रकारकं भवितुं शक्नोति ।

क).  काव्य शास्त्रीयमध्ययनम्

अत्र कवेः कृतेर्वा काव्यपक्षीयाणां विविधानामङ्गानां काव्यरुपस्य अभिव्यञ्जनाशिल्पस्य भाषाशैल्या भावतत्तवस्य प्रभावगुणादेश्चव्यवस्थितमथचच युक्तियुक्तं विवेचनं विद्यमानीक्रियते ।

(ख) समाजिकशास्त्रीयमध्यनम्

अत्र च साहित्यस्य  सामाजिकानां तत्त्वानाम् अर्थात् स्वसामाजिकपरिवेशेन सह तस्य प्रत्यक्षपरोक्षसम्बन्धयोस्तथा नैतिकदार्शनिकतत्त्वयोरध्ययनं विधियते । व्यापकार्थेऽसौ ऐतिहासिकपद्धतिरप्युच्यते ।

(ग) भाषा वैज्ञानिकशैली वैज्ञानिकपद्धतिः

इमे पद्धती अपि  शास्त्रीय पद्धतिनां समकक्षे वर्तते । भाषायाः शल्याश्च संरचनाया भाषाविज्ञान- शैलीशास्त्रसंमतया दृष्ट्या विश्लेषणमेतदीयं लक्ष्यं भवति । शैलीशास्त्रं वस्तुतः काव्यशास्त्र भाषाविज्ञानयोर्मध्यवत्र्यनुशासनं विद्यते ।

(घ) मनोवैज्ञानिकपद्धतिः

अत्र कृतिकृतोऽन्तश्चेतनाद्वारेण कृतेरध्ययनं विवक्षितं भवति । इयं हि चेतनां चैतन्यक्रियां मत्वा साहित्यस्य विवेचनं प्रस्तुतं करोति ।

(5) विश्लेषणात्मकमध्यनम् (Analytical Study)

समस्याः मूलं ज्ञात्वा तस्य सरलसमाधानायः विश्लेषणात्मकः अनुसन्धानः प्रस्तुयते । केञ्चित मते अयं व्याख्यात्मकं शोधः इत्युच्यन्ते , अत्र केवलं तथ्यानां संग्रहाणां संकलनं वा न भवति , अपितु त्वदिय विश्लेषणं निधाय मूल्यानं क्रियते । संस्कृतभाषासाहित्यस्य भाषाविज्ञानस्य वा गवेषणा क्षेत्रे अत्यावशक महत्वपूर्णा भूमिका वर्तते , वैदिक लौकिक च शास्त्राणामयोप्युक्त सुरक्षाऽर्थं विश्लेषणात्मकस्वधः नितराम् आवश्यकम् ।

(6) विशिष्टमध्यनम् (Special Study)

अत्र शोधक्रर्त्ता विशिष्टमध्यनस्य सामाधानाय प्रयतते । शोधकर्त्तु लक्ष्यं समस्याकेन्द्रितं भवति । अतः विषयणान्तराणां विवेचनं नापेक्षते । निर्दिष्टं सुत्रं काव्यप्रसङ्गे कुमारसम्भवे शैवसिद्धान्तः भासनाटकचक्रे शृङ्गाररसविचारः ,मेधदूते योगशास्त्रसिद्धान्तश्चेत्यादयः विषयाः भवतुमर्हन्ति ।एकं विशेषविषयमाधरीकृत्य साहित्यिकमध्ययनं वा यदा क्रियते तदा विशिष्टमध्यनमरिति कथ्यते । उदाहरणं यथा – हिमाचलप्रदेशस्य ज्योतिषकाराः, गुर्जरप्रदेशस्य संस्कृतनाटयकाराः,भारतस्य संस्कृतपत्रिकाः पत्रकाराश्चेत्यादि । अस्यां पद्धतौ परिवेशविषये, स्थानविशेषे कालविशेषे वा प्रादुर्भूतस्य साहित्यस्य विशेषाध्ययनमं विधीयते ।

उपसंहारः

       ज्ञानं प्रति मानवीयाकाङ्क्षायाः पूर्तिः तस्य विवेकशक्तेर्विकासस्तथा क्षमताया वृद्धि तस्य श्रमभारस्य स्वल्पीकरणम्, कष्टानां दूरीकरणम्, अनेकैः प्रकारै जीवनस्य सुखसुविधानां विस्तारः – इमान्येवानुसंधानस्य प्रधानानि मौलिकानि चोदेश्यानि सन्ति । अन्ते च जीवनसमृद्धौ मानवोतकर्षे च योगदानविधानमेव अनुसन्धानस्य चरमं सार्थक्यमस्ति । उपर्युक्तमुद्धरणम्, यतः शिक्षाशास्त्रायेण तथा समाजशास्त्रीयेणानुसन्धानेन च सम्बद्धमस्ति, अत्रोऽत्र जीवनस्य व्यावबारिकपक्षेऽधिकं बलं न्यस्तं दृश्यते- जीवनशब्दस्य स्थाने चिन्तनानुभूतिशब्दयोः प्रयोगेकृते सत्येतदेव साहित्यिकानुसन्धानस्योदेशेयं सिद्दयति । अस्य सूत्रस्यानुसारेण मानवीयचिन्तनानुभूती- मानवचेतनायाः समृद्धिपरितोषौ एव साहित्यिकानुसन्धानस्य चरमं लक्ष्यं निष्पद्येते तत्र चैतावत् साहित्यिकसमालोचनाया अपि चरमं लक्ष्यम् इतोऽतिरिक्तमन्यत् किं भवितुं शक्नोति उभयत्र यो भेदोऽस्ति, स न लक्ष्यकृतो भेदः ,किन्तु बलाबलप्रयुक्त एव । अनुसन्धाने ज्ञानपक्षः प्रबलो भवति आलोचनायाञ्च संस्कारः । लक्ष्यस्येदमैक्यमेव पद्धतीनां साम्यायोत्तरदायि वर्त्तते।

सम्बद्धाः लेखाः