अनुक्रमणीसाहित्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

अनुक्रमणी(सूची)ग्रन्थाः, यत्र मन्त्राणां द्रष्टारो ऋषयः के?, तेषां देवताः काः?, तेषां छन्दःअनुवाकवर्गसूक्तानि च कानि ? इति बोधनं भवति। वेदाङ्गेषु अपरिगणिता अपि अनुक्रमणीग्रन्थाः, प्रातिशाख्यग्रन्थाः, देवताग्रन्थाश्च वेदस्य रक्षार्थमेव प्रणीताः । बहवः अनुक्रमणीग्रन्थाः सन्ति । प्रत्येकं वेदस्य अनुक्रमण्यः समुपलब्धा भवन्ति ।

अनुक्रमण्याः रचयितृषु शौनक-कात्यायनौ नितान्तौ प्रख्यातावाचार्यो स्तः। शौनकेन ऋग्वेदरक्षार्थम् आर्षानुक्रमण्यादयो दशग्रन्थाः प्रणीताः। कात्यायनेन प्रातिशाख्यस्य रचना कृता । वेदाङ्गत्वाभावे अपि वेदरक्षार्थं, तद्गतावान्तरविषयाणां विवेचनार्थं च अनुक्रमणीग्रन्थाः महत्त्वपूर्णाः सन्ति । ऋक्सर्वानुक्रमणि-वृत्त्याः भूमिकायां वृत्तिकारेण षड्गुरुशिष्येण शौनकेन ऋग्वेदरक्षार्थं येषां दशग्रन्थानामुल्लेख: कृतः ते निम्नाः सन्ति -

(१) सर्वानुक्रमणी, (२) छन्दोऽनुक्रमणी, (३) देवतानुक्रमणी, (४) अनुवागनुक्रमणी, (५) सूक्तानुक्रमणी, (६) ऋग्विधानम्, (७) पादविधानम्, (८) बृहद्देवता, (९) प्रातिशाख्यम्, ( १० ) शौनकस्मृतिः च ।

एतेषु प्रारम्भिकपञ्चसु ग्रन्थेषु क्रमशः ऋग्वेदस्य दशमण्डलानाम्, ऋषीणाम्, छन्दसाम्, देवतानाम्, अनुवाकानाम्, सूक्तानाञ्च संख्या नाम तथा तद्विषयकाणां महनीयतथ्यानां क्रमबद्धविवरणम् अनुष्टुप्पद्येषु प्रस्तुवन्ति । ऋग्विधाने ऋग्वेदीयमन्त्राणां प्रयोगो विशेषकार्यसिद्धयर्थमेव प्रदर्शितोऽस्ति । एवंविधा विधानग्रन्था अन्येष्वपि वेदेषु प्रायः समुपलब्धा भवन्ति । सामवेदस्य सामविधानाख्यो ग्रन्थोऽस्ति। अनुक्रमणीग्रन्थे सत्यपि 'सामविधानम्' ब्राह्मणग्रन्थेषु परिगणितमस्ति । अस्मिन् ग्रन्थे साम-प्रयोगो विविधेष्वनुष्ठानेषु विशेषफलकामनायै प्रदर्शितोऽस्ति । शौनकीयप्रातिशाख्यमृग्वेदेनैव सम्बद्धमस्ति ।

बृहद्देवता

फलकम्:मुख्यलेखः

बृहद्देवता अनुक्रमणी-ग्रन्थेषु मुख्यग्रन्थः मन्यते। अस्य ग्रन्थरत्नस्य आलोके ऋग्वेदीयदेवतानां रहस्यं स्पष्टतः आलोकितं भवति। द्वादशशतेषु पद्येषु निर्मितोऽयं ग्रन्थः ऋग्वेदीयदेवतानां विषये प्रामाणिकः, प्राचीनस्तथा पर्याप्तरूपेण विस्तृतोऽप्यस्ति । ग्रन्थोऽयम् अष्टाध्यायेषु विभक्तोऽस्ति । प्रत्येकस्मिन्नध्याये प्रायः पञ्चपद्यानामेकः वर्गो भवति, किञ्चास्य विभाजनस्य सम्बन्धः ऋग्वेदस्य अष्टकेन सह कथमपि भवितुं न शक्यते। वर्गाणां विभाजनमपि पूर्णतः अव्यावहारिकं, यथेच्छकल्पितं चास्ति । अतो यदा कदा आख्यानस्य मध्ये एव कोऽपि वर्गः समाप्तो भवति ।

सर्वानुक्रमणी

फलकम्:मुख्यलेखः

सर्वानुक्रमणी ऋग्वेदस्य समस्तावश्यकविषयाणां ज्ञानाय कात्यायनस्य कृतिः। ग्रन्थोऽयं सूत्ररूपेण निबद्धोऽस्ति । प्रत्येकं सूत्रस्य आदिपदम्, अनन्तर-ऋचां संख्यां, सूक्तस्य ऋषेर्नाम, तस्य गोत्रं, सूक्तानां, तदनन्तर्गतमन्त्राणां च देवतायाः निर्देशं, मन्त्राणां छन्दसां क्रमबद्धोल्लेखं च कृतवान्। अनेन प्रकारेण ऋग्वेदस्य विषये आवश्यकसामग्रीसङ्कलनत्वेन ग्रन्थोऽयं विशेषरूपेणोपादेयोऽस्ति।

याजुष-अनुक्रमणी

शुक्लयजुःसर्वानुक्रमसूत्रस्य रचयिता कात्यायन एवाऽस्ति । ग्रन्थेऽस्मिन् पञ्चाध्यायाः सन्ति । एतेषां सूत्राणामर्थावबोधनाय अस्य ग्रन्थस्य भाष्यमपि प्रकाशितमस्ति । अस्य भाष्यस्य रचयिता महायाज्ञिकस्य प्रजापतेः पुत्रो महायाज्ञिकः श्रीदेवोऽस्ति । अस्य परिचयः प्रत्येकमध्यायस्यान्ते प्रदत्तपुष्पिकातो लभते। ग्रन्थेऽस्मिन् माध्यन्दिनसंहितायाः देवतानां, ऋषीणां, छन्दसां च विस्तृतं विवरणं प्रदत्तमस्ति । ग्रन्थारम्भे ऋषेश्छन्दसो ज्ञानस्य महिमा प्रतिपादितः अस्ति । अस्य ज्ञानं विना वेदाध्ययनं मरणमिव कष्टप्रदं भवति -

'अथान्तराश्चगर्त वाऽऽपद्यते स्थाणुं वच्छेति प्रमीयते वा पापीयान् भवति।'[१]

अत्र यागविधानस्य निमयः, अनुष्ठानानां च वर्णनं विशेषरूपेण लभते। छन्दसां विस्तृतविवेचनम् अस्याः अनुक्रमण्याः महती विशिष्टताऽस्ति ।

सम्बद्धाः लेखाः

उद्धरणम्

फलकम्:Reflist

  1. (पृ० १० )
"https://sa.bharatpedia.org/index.php?title=अनुक्रमणीसाहित्यम्&oldid=2584" इत्यस्माद् प्रतिप्राप्तम्