अनानसफलरसः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

अनानसफलम्
अनानसफलरसः
अनानसफलरसस्य निर्माणम्

अनानसफलस्य रसः एव अनानसफलम् । एतत् अनानसफलम् आङ्ग्लभाषायां Pineapple इति उच्यते । अस्य रसः Pineapple Juice इति उच्यते । अनानसफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य अनानसफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि अनानसफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं अनानसफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।


फलरसस्य निर्माणम्

अस्य अनानसफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् अनानसफलस्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलाम् अपि योजयितुं शक्यते ।



बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=अनानसफलरसः&oldid=4913" इत्यस्माद् प्रतिप्राप्तम्