अनन्तविजयं राजा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षोडशः (१६) श्लोकः ।

पदच्छेदः

अनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरःनकुलः, सहदेवः, च, सुघोषमणिपुष्पकौ ॥

अन्वयः

हृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ ।

शब्दार्थः

अनन्तविजयम् = तन्नामकम्
राजा = महाराजः
कुन्तीपुत्रः = कुन्तीसुतः
युधिष्ठिरः = युधिष्ठिरः
नकुलः = नकुलः
सहदेवः = सहदेवः
सुघोषमणिपुष्पकौ = तन्नामकौ

अर्थः

भगवान् श्रीकृष्णः स्वीयं पाञ्चजन्यं शङ्खम् अधमत् । अर्जुनः देवदत्तनामकं स्वीयं शङ्खम् अधमत् । भीमस्तु भयङ्कराणां कार्याणां करणे कुशलः । पौण्ड्रनामकः तस्य शङ्खोऽपि महान् एव । सः तम् अधमत् । युधिष्ठिरः अनन्तविजयनामकं शङ्खम् अधमत् । नकुलः सुघोषनामकं सहदेवः च मणिपुष्पकनामकं शङ्खम् अधमत् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अनन्तविजयं_राजा...&oldid=6324" इत्यस्माद् प्रतिप्राप्तम्