अनन्तभट्टः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person/Wikidata अनन्तभट्टः (Anantha Bhatta) ‘चम्पूभारतम्’ इति ग्रन्थं रचितवान् । ग्रन्थस्य नाम एव कथयति यत् एषः ग्रन्थः महाभारतस्य कथायाः आधारेण रचितः इति । अत्र १२ स्तबकानि सन्ति । अनन्तभट्टस्य देशकालादिविषये अधिकं विवरणं न लभ्यते । षोड्शशतकस्य आदिभागो एषः आसीत् इति पण्डितैः ऊह्यते । चम्पूभारतस्य शैली किञ्चित् प्रौढा । ये व्युत्पत्तिम् इच्छन्ति ते यथा चम्पूरामायणं तथैव चम्पूभारतम् अपि पठन्ति । किन्तु चम्पूरामायणे यावत् माधुर्यं दृश्यते तावत् माधुर्यं चम्पूभारते न दृश्यते । विचित्रकल्पनायां, शब्दचमत्कारे च कवेः विशेषासक्तिः । आरम्भस्तबकेषु काव्यगुणाः अधिकतया दृश्यन्ते । अन्येषु कथासङ्ग्रहस्य एव प्राधान्यं दृश्यते । चम्पूभारतस्य अपि बहूनि व्याख्यानानि उपलभ्यन्ते ।

"https://sa.bharatpedia.org/index.php?title=अनन्तभट्टः&oldid=8389" इत्यस्माद् प्रतिप्राप्तम्