अधश्चोर्ध्वं प्रसृताः...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
- अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य द्वतीयः(२) श्लोकः ।
पदच्छेदः
अधः च ऊर्ध्वं प्रसृताः तस्य शाखाः गुणप्रवृद्धाः विषयप्रवालाः अधः च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
अन्वयः
तस्य गुणप्रवृद्धाः विषयप्रवालाः शाखाः अधः ऊर्ध्वं च प्रसृताः । मनुष्यलोके अनुसन्ततानि कर्मानुबन्धीनि मूलानि अधः च ।
शब्दार्थः
- गुणप्रवृद्धाः = गुणप्ररूढाः
- विषयप्रवालाः = शब्दादिविषयपल्लवाः
- ऊर्ध्वम् = उपरि
- प्रसृताः = व्याप्ताः
- मनुष्यलोके = मानवलोके
- अनुसन्ततानि = विरूढानि
- कर्मानुबन्धीनि = कर्मानुसारीणि ।
अर्थः
तस्य अश्वत्थवृक्षस्य हिरण्यगर्भादयः शाखाः याः ऊर्ध्वम् अधश्च प्रसृताः सन्ति । अधश्च कर्मानुसारिणः जीवाः । अवान्तरमूलानि यानि वृक्षस्य अधः ऊर्ध्वं च विमुखं प्ररूढानि ।