अधर्माभिभवात् कृष्ण...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकचतुरिंशत्तमः (४१) श्लोकः ।


पदच्छेदः

अधर्माभिभवात्, कृष्ण, प्रदुष्यन्ति, कुलस्त्रियः । स्त्रीषु, दुष्टासु, वार्ष्णेय, जायते, वर्णसङ्करः ॥

अन्वयः

कृष्ण ! अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति । वार्ष्णेय ! स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।

शब्दार्थः

कृष्ण = हे माधव !
अधर्माभिभवात् = अधर्माक्रमणात्
कुलस्त्रियः = साध्व्यः
प्रदुष्यन्ति = व्यभिचरन्ति
वार्ष्णेय = कृष्ण !
स्त्रीषु = नारीषु
दुष्टासु = व्यभिचरितासु
वर्णसङ्करः = वर्णमिश्रणम्
जायते = भवति ।

अर्थः

अधर्मः यदि कुलानि आवृणोति तर्हि कुलस्त्रियः प्रदुष्यन्ति । ताः यदा प्रदुष्यन्ति तदा वर्णसङ्करः भवति ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अधर्माभिभवात्_कृष्ण...&oldid=6671" इत्यस्माद् प्रतिप्राप्तम्