अधर्मं धर्ममिति या...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।

पदच्छेदः

अधर्मं धर्मम् इति या मन्यते तमसा आवृता सर्वार्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥

अन्वयः

पार्थ ! तमसा आवृता या बुद्धिः अधर्मं धर्मम् इति सर्वार्थान् विपरीतान् च मन्यते सा तामसी ।

शब्दार्थः

तमसा = तमोगुणेन
आवृता = आच्छादिता
सर्वार्थान् = सकलविषयान्
विपरीतान् = विरुद्धान् ।

अर्थः

पार्थ ! या बुद्धिः तमोगुणेन आवृता अधर्मं धर्मः इति जानाति, सर्वान् अपि अर्थान् विपरीतानेव जानाति सा बुद्धिः तामसी इति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अधर्मं_धर्ममिति_या...&oldid=10766" इत्यस्माद् प्रतिप्राप्तम्