अदिलाबादमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian jurisdiction

बासरा देवालयः

अदिलाबाद् जनपदम् (Adilabad district) आंध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रः अदिलाबाद् नगरः । अस्मिन् मण्डले स्थितः बसरा नाम क्षेत्रे एकं प्रमुखं सरस्वतीदेवि मन्दिरम् वर्तते ।

इतिहासः

एल्लाबादिति आख्यातं प्रान्तमिदं १९०५ तमे वर्षे आदिलाबाद् इत्यभिहितम् । गोल्कोण्डराजाः, वेलमाःदक्कन्-सुल्तानजनाः, असफजाहीवंशजाः, बहमनीसुल्तान्-जनाः च चिरमपालयन् । सिरिपूर्, ताण्डूर् इत्येते उपमण्डले निधाय १८७२ तमे वर्षे गोल्कोण्डराजाः पर्यपालयन् । १९१०, १९४० वर्षयोः मण्डलकेन्द्रम् आदिलाबादः, आसिफाबादं पुनः अदिलाबादं प्रति परिवर्त्यमानम् आसीत् । १९५६ तमे वर्षे राज्यानां पुनर्व्यवस्थीकरण-नियमदृष्ट्या मराठीभाषिणां प्रदेशाः महारष्ट्रे योजिताः ।

भौगोलिकम्

भौगोलिकम् अस्य प्राक्पश्चिमोत्तरदिक्षु महाराष्ट्रम्, दक्षिणे चकरींनगर्, निजामाबाद् मण्डले सीमायां सन्ति । ७ राजमार्गः नागपुरम्-बेङ्गळूरु वर्तते । ४४.२१% अटवीभूमिः विस्तृता मण्डलस्य भूभागे । मण्डलमिदं १०९ कि.मी.मितं विस्तृतम् ।

कृषिः वाणिज्यं च

खानापूर्, परिसरप्रान्तेषु अयोधातुः, बेल्लम्पल्लि, मन्दमर्रिस्थलयोः अङ्गारनिक्षेपाः सुधाशिलानां निधिः च भूरिप्रमाणेन उपलभ्यते । १९३८ तमे वर्षे सिरिपूर्, कागजनगरप्रान्ते कर्गदपरिश्रमाः स्थापिताः । माञ्चिर्याला, अदिलाबाद् प्रान्तयोः सिमेण्ट्-कर्मागाराणि सन्ति । बासरप्रान्ते प्रविष्टा गोदावरी नदी निजामाबाद्, करींनगरप्रान्ताभ्यां प्रवहतन्ती प्रयाति । मण्डले वृष्ट्यभावात् लघुसस्यानामेव आधिक्येन कृषिः क्रियते । कार्पासः, तिलः, चणकाः, मुद्गः, माषाः, हरिद्रा इत्यादीनां सस्यं भवति । ४०% सस्य भूम्यां १२% भूमेः जलप्राप्तिः वर्तते । वीक्षणीयस्थलानि श्रीव्यासप्रतिष्ठितः बासरग्रामे श्रीज्ञानसरस्वती देवालयः प्रख्यातः दर्शनीयश्च । अस्मिन् पुण्यक्षेत्रे सर्वदा बालानाम् अक्षरारम्भादिकं प्रचलति । शिक्षा, आर्थिकं इत्याद्यभिवृध्दिदृष्ट्या इदं मण्डलं नाग्रेसरम् ।

तालूकाः

  1. अदिलाबाद्,
  2. तलमडुगु,
  3. ताम्सी
  4. जैनद्
  5. बेल्
  6. बोत्
  7. बजात् कत्नूर्
  8. इच्चोड
  9. नेरडिगोण्ड्
  10. गुडिहत्नूर्
  1. उट्नूर्
  2. इन्द्रविल्लि
  3. नार्नूर्
  4. जैनूर्
  5. सिर्पूर्
  6. लेहेस्रा
  7. कुन्तल
  8. सारङ्गपूर्
  9. निर्मल्
  10. दिलावर्पूर्
  1. मामड्
  2. लक्ष्मणचढ
  3. कुबीर्
  4. बैंसा
  5. मधोल्
  6. तानूर्
  7. खानापूर्
  8. कडेम्
  9. जन्नारम्
  10. दण्डेपल्लि
  1. लक्सेट्टिपेट
  2. मञ्चिर्याल्
  3. मन्दमर्रि
  4. काशिपेट्
  5. आसिफाबादु
  6. रेब्बेन
  7. ताण्डूर्
  8. बेल्लम्पल्लि
  9. तिर्यानि
  10. केरमेरि
  1. वाङ्खिडि
  2. सिर्पूर्
  3. कौताल्
  4. बेज्जूरु
  5. दहेगाम्
  6. भीमिनि
  7. कागजनगर्
  8. चेन्नूर्
  9. कोटपल्लि
  10. वेमन्पल्लि
  1. नेन्नाल
  2. जैपूर्

बाह्यसम्पर्कतन्तुः

फलकम्:तेलङ्गाणाराज्यम्

"https://sa.bharatpedia.org/index.php?title=अदिलाबादमण्डलम्&oldid=4802" इत्यस्माद् प्रतिप्राप्तम्