अदलाज् सोपानकूपाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian Jurisdiction

अदलाज् नगरे स्थितः रुडाबायीसोपानकूपः

एतादृशाः सोपानकूपाः गुजरातराज्ये एव द्रष्टुं शक्यन्ते । गुजरातराज्ये आहत्य १२० स्थलेषु एतादृशाः सोपानयुक्ताः विशिष्टकूपाः सन्ति । तेषु अतिप्राचीनः राज्ञीकूपः (रानी vav) एतत् द्वादशे शतके निर्मितम् ।पाटणनगरतः ८० कि.मी दूरे अस्ति । अदलाजकूपः क्रिस्ताब्दे पञ्चदशशतके राज्ञ्या रुडाबायीद्वारा निर्मितम् अस्ति । अहमदाबादतः १९ कि.मी , गान्धिनगरतः समीपे एतदस्ति । एतस्य अदलाज् vav इति नाम अस्ति । अहमदाबाद्-मेहसाणामार्गसमीपे एतदस्ति । एतेषां कूपाना रचना अतिविशिष्टा अस्ति । आरम्भे साधारणकूपाः इव दृश्यन्ते । यथा यथा अधः गच्छामः तथा तथा कलात्मकता वर्धते । एते कूपाः कलाकेन्द्ररूपेण परिवर्तिताः भवन्ति । अत्र शिलासु प्रदर्शिता कला अतीव सुन्दरी अस्ति । हिन्दु-जैन- बौद्ध- मुसल्मान् एवं सर्वधर्मीयानां कलाशैलीनां मिश्रणम् अत्र अस्ति । पुष्पलताः, पत्राणि, विविधाः प्राणिनः, पक्षिसङ्कुलाः, अश्वाः, गजाः, नवग्रहाः, शक्तिदेवताः च प्रधानतया विराजन्ते । बौद्धानां शिल्पविशेषाः अपि अत्र सन्ति । जलस्थानं १०० पादपरिमितं भवति । पञ्चस्तरे निर्मितः कूपः भवनम् इव दृश्यते । तत्र स्तम्भेषु भित्तिषु शिल्पानि सुन्दराणि सन्ति । ग्रीष्मसमयेऽपि एतानि स्थानानि शीतलानि भवन्ति । दादाहरिनामकं स्थलम् एतादृशम् अस्ति । एतत् क्रिस्ताब्दे १४९९ वर्षे निर्मितम् अस्ति ।

वाहनमार्गः

अहमदाबादतः १९ कि.मी (गान्धिनगरतः ५ कि.मी ) अहमदाबाद-मेहसाणा राष्ट्रियमार्गतः अर्धकि.मी. दूरेऽस्ति । अहमदाबादनगरे वसतिः कर्तुं शक्या । अहमदाबादनगरे विमाननिस्थानकं धूमशकटनिस्थानं च स्तः ।

सोपानकूपस्य अन्तर्भागः
"https://sa.bharatpedia.org/index.php?title=अदलाज्_सोपानकूपाः&oldid=519" इत्यस्माद् प्रतिप्राप्तम्