अथ योगानुशासनम् (योगसूत्रम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement अथ योगानुसाशनम् (फलकम्:IPA audio link फलकम्:IPAc-en) इत्येतत् पातञ्जलयोगसूत्रस्य प्रथमस्य समाधिपादस्य प्रप्रथमं सूत्रं विद्यते ।

सूत्रान्वयः

अथ = अत्र आरभ्यते । योग + अनुशासनम् = (अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य) योग इत्याख्यस्य शास्त्रस्य आरम्भः भवति ।

सूत्रार्थः

अत्र अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य योगशास्त्रस्य आरम्भः भवति ।

व्यासभाष्यम्

अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥

भाष्यार्थः

"अथ" इत्यस्य शब्दस्य प्रयोगः अधिकारार्थे, आरम्भार्थे च प्रयुक्तः । योगाङ्गानाम् उदपदेशकस्य शास्त्रस्य आरम्भः भवति इति भावः । योग इत्युक्ते समाधिः । चित्तस्य सर्वासु भूमिषु विद्यमानः चित्तस्य धर्म एव योगः । अर्थात् चित्ते सर्वत्र व्याप्तः धर्म एव योग इत्यर्थः । चित्तस्य पञ्चभूमयः सन्ति । यथा – क्षिप्तचित्तं (व्यग्रता), मूढचित्तं (स्मृतिशून्यता), विक्षिप्तचित्तं (प्रसङ्गेषु स्थिरता), एकाग्रचित्तं, निरुद्धचित्तं च । विक्षेपानन्तरं विक्षिप्ते चित्ते गौणरीत्या अनुभूयमाना स्थिरता योगपक्षत्वेन न परिगण्यते । परन्तु एकाग्रे चित्ते यस्याः उपस्थितिः विद्यते, या सत्पदार्थान् प्रकाशयति, या क्लेशान् क्षिणोति (क्षीणं करोति), या कर्मबन्धनान् शिथिलीकरोति (शिथिलं करोति), या निरोधस्थितिं जनयति, सा सम्प्रज्ञातस्य समाधेः अवस्था एव योग इत्युच्यते । अग्रे सः (योगः) वितर्केण, विचारेण, आनन्देन, अस्मितया च युक्तोस्ति इति कथयिष्यामः । सर्वासां वृत्तीनां निरोध एव असम्प्रज्ञातः (विशुद्धा अपगतचेतनावस्था, unconscious) समाधिः उच्यते [१]

तत्त्ववैशारदीभाष्यम्

इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्पवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार - अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं न्याचष्टे – अथेत्ययमधिकारार्थः । 'अथैष ज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति ह शास्त्रमाह 0 अनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते - तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवत्मानं पश्येत् (बृ. ४/४/२३) इति । शिश्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिनाधनम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रमाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ।। एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तात् ।। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा स'त्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १/१/१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति । ननु - "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधइकृतमिति । ननु व्यत्पाद्यमानत्या योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्यत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । युज् समाधौ (धा.पा. ४-६७) इत्युस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे (धा.पा. ७/७) इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चित्तस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमाज्ञाभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानन्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्नरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूचस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति चपरस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरूपयन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्यमस्थिरम् । मूढं तु तमःसमुद्रेकान्नद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यनन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनरोधे पारम्पर्येणापि निःश्रेयसतेहुभावाभावत्तद्रूघोतकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कस्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सम्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनानन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पय इति भावः ।

यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यानुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदपूत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' (२/१३) इति । किं च निरोधमभिमुखं करोत्यभिमुखीकरोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोधः इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ।। १ ।।

भाष्यार्थः

आरभ्यमाणस्य विषयस्य संक्षेपेण उपस्थापनार्थं, बुद्धिमतां प्रवृत्त्यै, श्रोतॄणां सरलतया अवबोधनार्थं च भगवान् पतञ्जलिः प्रप्रथमसूत्रत्वेन 'अथ योगानुशासनम्' इति सूत्रं व्यरचयत् । यथा "अथ एष ज्योतिः" इत्यत्र इतः परम् अत्र प्रकाशः अभवत् इत्यर्थे प्रयुक्तः, तथा इतः परम् इति भावं न द्योतयति । सूत्रे प्रयुक्तेन "अथ" इत्यनेन शब्देन सः कथयति यत्, अत्र अथ इति शब्दः आरम्भार्थे प्रयुक्तोऽस्ति । अनुशासनम् अर्थात् उपदेशात्मकं शास्त्रम् । येन अनुशासनं क्रियते तत् शास्त्रम् । एतस्य शास्त्रस्य प्रवृत्तिः शमदमादीनामनन्तरं न भवति, अपि तु तत्त्वज्ञानस्य व्याख्यानस्य इच्छायै उत गुरोः तत्त्वविषयकं ज्ञानप्राप्तेः इच्छायै भवति । तत्त्वज्ञानस्य विषये वक्तुं, ज्ञातुं च या इच्छा भवति, तस्याः समनन्तरं तत्त्वं ज्ञातुम् इच्छा, तत्त्वज्ञानं च उत्पद्यते । यथा वेदे उक्तं - "अतः शान्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः च भूत्वा आत्मनि एव आत्मानं पश्यति" इति (बृ. उ. ४/४/२३) । यद्यपि शिष्येभ्यः प्रश्नः, तपः, रसायणम् इत्यादीनाम् उपयुक्तं ज्ञानं दत्त्वा शास्त्रनिर्माणं सम्भवः आसीत्, तथापि अत्र तानि शास्त्राणि न उक्तानि । यतो हि योगशास्त्रस्य प्रामाण्ये शिष्यस्य प्रतीतिः (अवगमनं), प्रवृत्तिः च अनुपयुक्ते स्तः । तयोः अभावे सत्यपि योगशास्त्रम् उपादेयम् अस्ति (to be allowed) । शिष्येषु प्रतीतिः, प्रवृत्तिः च सत्यायाम् अपि यदि शास्त्रम् अप्रामाणिकं स्यात्, तर्हि शास्त्रस्य निर्माणं न करणीयम् । एवं तत्त्वज्ञाने, तस्य व्याख्यायाः इच्छायां च आनन्तर्यम् अस्ति इति कथनस्य निराकणम् अभवत् । अत्र प्रयुक्तेन "अथ" शब्देन प्रारम्भः इत्यर्थं स्वीकुर्मः चेत्, शास्त्रैः यस्य प्रारम्भः, उपस्थापनं च भवति, सः योगः इति अर्थबोधः भवति । तेन योगेन सर्वेषां शास्त्राणां तात्पर्यार्थस्य व्याख्यानेन (बोधयित्वा, to teach) शिष्याः सरलताय बोधयितुं शक्यन्ते । यतो हि श्रुतिषु, स्मृतिषु इतिहासेषु, पुराणेषु च समाधिः मोक्षस्य हेतुत्वेन प्रसिद्धः अस्ति ।

प्रथमः प्रश्नः समुत्पद्यते यत्, किं सर्वेषु सन्दर्भेषु "अथ" शब्दः आरम्भार्थे एव स्वीक्रियते ? यदि एवं भवति, तर्हि "अथातो ब्रह्म जिज्ञासा" इत्यादिषु अपि आरम्भार्थकः "अथ" शब्दः स्वीकरणीयः भवति । अतः "अत्र" (योगशास्त्रं यावत्) इत्युक्तम् । तथा च याज्ञवल्क्यस्मृतौ उक्तम् अस्ति यत्, "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । एवं पतञ्जलिः योगशास्त्रस्य कर्ता कथं भवितुम् अर्हति ? इति शङ्कायाः समाधानाय सूत्रकारेण "अनुशासनम्" इत्यस्य शब्दस्य प्रयोगः कृतः । अग्रे उपदिष्टस्य पुनरुपदेशः अस्ति, न तु शासनत्वेन अर्थः ग्रहणीयः । "अथ" शब्दः आरम्भार्थकः गृह्यते चेदेव, "पुरा उक्तस्य योगशास्त्रस्य अनु-(पश्चात्)-उपदेशकं शास्त्रम् आरभ्यते इत्यर्थः भवति ।

योगशास्त्रस्य उपदेशात्मकः ग्रन्थः आरम्भ्यते एवं किमर्थम् उक्तम् ? अत्र तु स्वयं योगस्य एव चर्चा भविष्यति । अतः "वेदितव्यम्" इत्यस्य ज्ञानम् आवश्यकम् इत्युक्तम् । योगस्य चर्चायै एव ग्रन्थस्यास्य आरम्भः भवति, परन्तु योगस्य प्रतिपादनं तस्य योगस्य विषये चर्चात्मकस्य ग्रन्थस्य निर्माणेनैव भवितुम् अर्हति । उपदेशकस्य कार्यं साधनेनैव सिद्ध्यति, साक्षात् साध्यस्योपरि प्रवृत्तिना न सिद्ध्यति । उपदेशकस्य कार्यसम्बद्धाय विषयाय चर्चां कर्तुं योगविषयकग्रन्थस्य आरम्भः भवति इत्यर्थः । ग्रन्थस्य विषयः योगः इति ।

आरम्भार्थे प्रयुक्तस्य "अथ" शब्दस्य श्रवणं नीयमानस्य पूर्णकुम्भस्य दर्शनवत् मङ्गलकारकम् अस्ति इति बोध्यम् । योगशब्दस्य प्राथमिकार्थस्य कारणेन उत्पद्यमानानां सन्देहानां निवारणाय "योगः समाधिः" इत्युक्तम् । "युज्" समाधौ इत्यस्मात् धातोः निष्पन्नः योगशब्दः चित्तसमाधानस्य अर्थं बोधयति । अपरत्र "युजिर्" योगे इत्यस्मात् धातोः निष्पन्नः योगशब्दः संयोगं द्योतयति ।

द्वितीयः प्रश्नः समुद्भवति यत्, अग्रे उच्यते, योगरूपिणः अङ्गिनः समाधिः केवलम् अङ्गमात्रम् अस्ति इति । अङ्गाङ्गिनोः एकरूपता कथम् ? । अतः "स च सार्वभौमः चित्तधर्मः" इत्युक्तम् । अर्थात् चित्तस्य सर्वासु भूमिषु उपलब्धः सः तस्य धर्मः अस्ति इति । अत्र प्रयुक्तः "च" (and, और) शब्दः अङ्गाङ्गिनोः भेदं द्योतयति । भूमयः अग्रे उच्यते । सः योगः मधुमती, मधुप्रतीका, विशोका इत्यादिषु चितावस्थायां यत्र केवलं संस्करः अवशिष्टो भवति, तत्र विद्यमानत्वात् सः योगः "सार्वभौमः" चित्तवृत्तिनिरोधकः उच्यते । सः योगाङ्गमात्रात् समाधेः भिन्नः अस्ति ।

अत्र "योग" शब्दः ध्यानार्थे प्रयुक्तः । योगशास्त्रस्य अभ्यासाय, अध्ययनाय च प्रोत्साहनं दातुं तस्य प्रतिपादनं कृतम् अस्ति । अतः अङ्गाङ्गिनोः भेदस्योपरि भारः न प्रदत्तः । योगशब्दस्य उचितार्थः चित्तवृत्तिनिरोधः अस्ति । केषाञ्चन चिन्तनम् अस्ति यत्, वृत्तयः ज्ञानरूपित्वात् आत्मनः आश्रयेण तिष्ठन्ति । अतः वृत्तिनिरोधोऽपि आत्माश्रयेण एव सिद्ध्यतीति । तेषां खण्डनं कर्तुं "चित्तस्य धर्म" इत्युक्तम् । चित्तशब्देन अन्तःकरणरूपिणः बुद्धेः बोधः भवति । ज्ञानं कूटस्थस्य (the supreme soul), नित्यस्य (constantly), अपरिणामिनः (unchangeable) चित्तशक्तेः धर्मः नास्ति, अपि तु बुद्धेः धर्मः भवेत् इति भावः ।

एवं भवेत्, परन्तु चित्तस्य सर्वासु भूमिकासु योगः यदि व्यापकः अस्ति, तर्हि क्षिप्तं, विक्षिप्तं, मूढम् इत्येताः अवस्थाः अपि योगत्वेन परिगण्यन्ते । यतो हि तासु अपि अन्यवृत्तीनाम् अपेक्षया अपरवृत्तीनां निरोधो भवति । अतः योगाय उपयोगिनः, अनुपयोगिनः च भूमेः बोधं कारयितुं "क्षिप्तम्" इत्यादीनां भेदं वर्णयति ।

१. क्षिप्तम् अर्थात् रजोगुणप्रभावेण तत्सम्बद्धेषु विषयेषु रमणं (निरन्तरं व्यग्रं) । क्षिप्तं स्वाभाविकान्तरयेभ्यः उत व्याधि-स्त्यानादिभ्यः अन्तरायेभ्यः समुत्पद्यते इति बोध्यम् । व्याधि-स्त्यानादयः अन्तरायाः अग्रे वक्ष्यते ।

२. मूढम् अर्थात् तमोगुणप्रभावेण निद्रावृत्तियुक्तम् ।

३. विक्षिप्तम् अर्थात् क्षिप्तात् विशिष्टम् । विशेष-शब्दः अस्थिरतायां कदाचित् जायमानां स्थिरतां द्योतयति ।

४. निरुद्धम् अर्थाच् सर्वाः वृत्तयः स्थगिताः भवन्ति, केवलं तासु संस्काराः शेषाः भवन्ति तादृशं चित्तम् ।

५. एकाग्रम् अर्थात् एकस्मिन् विषये स्थिरता ।

क्षिप्तं, मूढं च परस्परविरोधिनौ सत्यौ अपि परम्पानुगुणं मोक्षस्य अकारणत्वात्, मोक्षस्य विघातकत्वात्, योगपक्षात् बहु दूरे स्थितत्वात् च तयोः योगभानस्य निषेधः न कृतः । परन्तु विक्षिप्तं चित्तं बहुधा सद्वस्तुषु स्थिरत्वे प्राप्ते सति समाधेः अवस्थाम् अनुभवति, सः योगपक्षे न परिगण्यते । यतो हि तादृशी स्थिरता विपक्षरूपिचञ्चलतायाः गौणपरिणामत्वेन उत्पद्यते । विरोधिपक्षेन सह विद्यमानस्य स्वरूपम् अनिश्चितत्वात् सः स्वयं कारणं भूत्वा कार्यं कथं कर्तुं प्रभवति ? उदा. – त्रिचतुर्क्षणेक्ष्यः अग्नौ स्थापितं बीजं रोप्यते चेदपि तस्मात् अङ्कुरस्फुटनम् अशक्यम् इति भावः ।

यदि विक्षेपाङ्गुभूतः समाधिः योगः न, तर्हि कः सः योगः ? इत्यस्य प्रश्नस्य उत्तरत्वेन "यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति..." इत्युक्तम् । तेन कथयति यत्, यः समाधिः सद्भूतार्थं द्योतयति, क्लेशान् क्षीणीकरोति, कर्मबन्धनं शिथिलीकरोति, चित्ते निरोधत्वं जनयति च सः योगः उच्यते । "भूत" – उपस्थितशब्देन आरोपितस्य निवृत्तिं करोति । "सत्" इत्यस्मात् उद्भूतं योग्यं, नितान्तं च सत्त्वम् उच्यते । यतो हि निद्रावृत्तौ स्वाववम्बनरूपी "भूत" – उपस्थिते तमोगुणे एकाग्रो भवति । सः तमसः प्रकर्षः क्लेशस्य हेतुत्वात् न शोभनीयः । "प्र-द्योतयति" इत्यत्र "प्र" इत्येषः प्रकर्षस्य सूचनायाः बोधं कारयति । सः प्रकर्षस्य साक्षात्करं दर्शयति । यद्यपि तत्त्वज्ञानस्य द्योतनम् उत प्रकटिकरणं तु आगमैः उत अनुमानेनापि शक्म् अस्ति, तथापि तत् परोक्षरूपित्वात् साक्षात् अनुभूतायाः अविद्यायाः उच्छेदं (विनाशं) कर्तुं न प्रभवति । उभयोः चन्द्रसोः दर्शने सति यदा दिशाभ्रमः भवति, तदा सः भ्रमः केवलं शब्दैः उत अनुमानेन न दूरीभवति । अस्मितादयः क्लेशाः अविद्यामूलत्वात् तथा च विद्या अविद्यायाः नाशकत्वात् च विद्यायाः उदयेन अविद्यादयः क्लेशाः तस्याः विरोधित्वात् कारणनाशे सति नश्यन्ति । अतः "क्षिणोति च क्लेशान्" इत्युक्तम् । अतः कर्मरूपिणः बन्धनानि शिथिलीकरोति । कर्मणा अपूर्वसूचना भवति । कार्ये कारणस्य उपचारः (व्यवहारः) शक्यः भवति । शिथिलीकरोति अर्थात् स्वकार्यात् समुद्भूतानि फलानि स्थगयति । "सति मूले तद्विपाकः (२/१३)" अर्थात् मूले सत्येव कर्मविपाकः भवति इति अग्रे उच्यते । निरोधस्य स्थितिं प्रकटयति । "स च..." इत्यादिभिः सः सम्प्रज्ञातः योगः चतुर्धा इति कथयति ।

"सर्ववृत्ति..." इत्यादिभिः असम्प्रज्ञात-विषये कथयति । रजस्तमस्युक्ताः प्रमाणादिवृत्तयः सत्त्वगुणिवृत्तीनाम् आश्रयं स्वीकृत्य सम्प्रज्ञातसमाधौ निरोधः भवति । असम्प्रज्ञातौ सर्वासां वृत्तीनां निरोधः भवति इत्युक्तम् । मधुमती इत्यादयः भूमयः सम्प्रज्ञातासम्प्रज्ञातयोः समाविष्टाः भवन्ति । तासु भूमिषु व्याप्तत्वात् समाधिः सार्वभौमः चित्तधर्मः उक्तः [२]

राजमार्त्तण्डवृत्तिः

अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥

वृत्त्यार्थः

इत्यनेन सूत्रेण योगशास्त्रस्य सम्बन्धः, अभिधेयः (वर्णयविषयः), उद्देश्यं, अधिकारी इत्येतत् साधनचतुष्टयं कथयति । प्रस्तुतसूत्रे प्रयुक्तः "अथ" शब्दः प्रारम्भार्थकः, मङ्गलार्थकश्च वर्तते । "युज् समाधौ" (धा. पा. ४/६७) इति समाध्यर्थकः युज् धातोः "योग" शब्दः निष्पन्नः । अतः "योग" शब्दस्य अर्थः समाधिः भवति (युज् + घञ् = योगः) । एतस्य "योग" शब्दस्य निष्पत्तिः "युजिर् योगे" (धा. पा. ७/७) इत्यस्मात् सूत्रात् नाभवत् । येन लक्षण-प्रकार-साधन-प्रयोजनादिनः सहितस्य शास्त्रस्य अनुशासनं क्रियते, तस्य शास्त्रस्य पुनः व्याख्यानम् उत उपदिष्टसिद्धान्तानां पुनः कथनमेव अनुशानसम् इत्युच्यते । योगानुशासनम् इत्युक्ते, पूर्वोपदिष्टस्य, अनादियोगसिद्धानानां वा पुनः कथनम् । प्रस्तुतशास्त्रस्य समाप्तिपर्यन्तं तस्य योगस्य एव वर्णनम् अस्ति इत्यर्थः ।

तत्र योगशास्त्रस्य व्याखानत्वात्, अत्र साधनेन, फलेन च सह योग एव मुख्यप्रतिपाद्यः विषयः अस्ति । तथा च योगशास्त्रस्य वर्णनम् एव ग्रन्थस्य उद्देशः अस्ति । वर्णितस्य योगशास्त्रस्य कैवल्यम् अर्थात् मोक्ष एव प्रयोजनम् अस्ति । योगशास्त्रस्य वर्ण्यविषयेन सह प्रतिपादकप्रतिपाद्यसम्बन्धः अस्ति । अर्थात् योगशास्त्रं प्रतिपादकम् (वर्णनकर्ता) अस्ति, वर्ण्यविषयः (कृतवर्णनः विषयः) प्रतिपाद्यम् च । वर्ण्यविषयस्य योगेन सह साध्यसाधनसम्बन्धः अस्ति । अर्थात्, वर्ण्यविषयः योगः साधनम् अस्ति, कैवल्यं साध्यञ्च । एतस्य अभिप्रायः भवति यत्, अनेन शास्त्रेण वर्णनीयस्य योगस्य साधनानाम् (उपायानाम्) उपस्थापनं भवति इति । तैः साधनैः सिद्धः योग एव कैवल्यरूपिफलं प्रयच्छति [३] ।। १ ।।

विशेषम्

अनुबन्धचतुष्टयम् [४]

• विषयः – एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति ।

• प्रयोजनम् - एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः ।

• अधिकारी - एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति ।

• सम्बन्धः – अनेन सः शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं साध्यम् । अतः कैवल्ययोगयोः साध्य-साधन-भाव-सम्बन्धः अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य-प्रापक-भाव-सम्बन्धः अस्ति । मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति ।

योगस्य प्रचीनपरम्परा

"शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता पतञ्जलिना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । याज्ञवल्क्यस्मृतौ, महाभारते, श्रीमद्भागवतमहापुराणे, ऋग्वेदे, यजुर्वेदे, छान्दोग्योपनिषदि, अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते ।

उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । श्वेताश्वतरोपनिषदः द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । कठोपनिषदः द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीमद्भगवद्गीतायाः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् श्रीकृष्णः योगशक्तिं, योगस्वरूपं च अर्जुनं कथयति ।

फलकम्:योगसूत्रक्रमः

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

हिरण्यगर्भः

बाह्यसम्पर्कतन्तुः

फलकम्:Wikisourcelang

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम्

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः

फलकम्:शिखरं गच्छतु

  1. फलकम्:Cite book
  2. फलकम्:Cite book
  3. भोजदेवकृतराजमार्तण्डवृत्तिसमेतम् – पातञ्जलयोगसूत्रम्, भारतीय विद्या प्रकाशन, वाराणसी, पृ. ३-५
  4. फलकम्:Cite book