अथ चैनं नित्यजातं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement अथ चैनं नित्यजातम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकस्य सर्वथा अयोग्यतां वर्णयति । पूर्वेषु त्रिषु श्लोकेषु आत्मनः नित्यतायाः सिद्धान्तम् उपस्थाप्य अत्र तस्य सिद्धान्तस्य अभावेऽपि शोको न करणीयः इति कथयति । सः कथयति यद्, हे महाबाहो ! यदि त्वम् एनं देहिनं नित्यजातत्वेन, नित्यमृतत्वेन चापि अङ्गीकरोषि, तर्ह्यपि त्वया शोकः न करणीयः एवेति ।

श्लोकः

गीतोपदेशः
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥

पदच्छेदः

अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम् । तथा, अपि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि ॥

अन्वयः

महाबाहो ! अथ च एनं नित्यजातं नित्यं वा मृतं मन्यसे तथापि त्वम् एवं शोचितुं न अर्हसि ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
अथ च अव्ययम् यदि पुनः
एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम् देहिनम्
नित्यजातम् अ.पुं.द्वि.एक. सर्वदा जायमानम्
नित्यं अ.पुं.द्वि.एक. सदा
वा अव्ययम् वा
मृतम् अ.पुं.द्वि.एक. नष्टम्
मन्यसे √मन ज्ञाने-आत्म.कर्मणि, लट्.मपु.एक. चिन्तयसि
तथापि अव्ययम् एवमपि
महाबाहो उ.पुं.सम्बो.एक. दीर्घबाहो (अर्जुन)
त्वम् युष्मद्-द.सर्व.पं.एक. त्वम्
एवम् अव्ययम् इत्थम्
शोचितुम् तुमुन्नान्तम् अव्ययम् खेदितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.प्रपु.एक. योग्यः असि ।

व्याकरणम्

सन्धिः

  1. चैनम् = च + एनम् - वृद्धिसन्धिः
  2. तथापि = तथा + अपि - सवर्णदीर्घसन्धिः

समासः

  1. नित्यजातं = नित्यं जातः, तम् - सुप्समासः

कृदन्तः

  1. जातम् = जन् + क्त (कर्तरि)
  2. मृतम् = मृ + क्त (कर्तरि)

अर्थः

हे अर्जुन ! यदि पुनः त्वम् अयम् आत्मा सर्वदा जायते इति सर्वदा म्रियते इति वा मन्यसे तथापि एवं शोकम् अनुभवितुं नार्हसि ।

भाष्यार्थः

'अथ चैनं... शोचितुमर्हसि' – अत्र भगवान् पक्षान्तरस्यापि 'अथ च', 'मन्यसे' इत्येतयोः पदयोः उपस्थापनं करोति । यद्यपि वास्तविकता एषा एवास्ति यद्, देही अजन्मा, सनातनः च अस्ति इति, तथापि यदि त्वं तं सिद्धान्तम् अङ्गीकर्तुं नेच्छसि, तर्हि अपि ते शोकस्य विषयः नास्ति । किञ्च यः प्राप्तजन्मा, सः मरिष्यत्येव । यः प्राप्तमृत्युः, सः जनिष्यत्येव । तं नियमं परिवर्तयितुं न कोऽपि समर्थः । यदि बीजं भूमौ वपामः, तर्हि सः अङ्कुरं यच्छति । सः अङ्कुरः क्रमशः वृद्धः सन् वृक्षरूपी भवति । एतस्यां प्रक्रियायां सूक्ष्मतया चिन्तयामः चेत्, किं तद् बीजं क्षणमात्रम् अपि एकरूपम् अतिष्ठत् ? भूमौ तद् प्रप्रथमं कठोररूपं त्यक्त्वा मृदु अभवत् । ततः मृदुतां त्यक्त्वा अङ्कुरः अभवत् । ततश्च अङ्कुररूपं त्यक्त्वा वृक्षः अभवत् । अन्ततो गत्वा आयुष्ये समाप्ते शुष्कं जातम् । अनेन क्रमेण बीजम् एकस्मिन् क्षणेऽपि एकरूपं नातिष्ठत्, प्रत्येकं क्षणं तद् परिवर्तनशीलम् आसीत् । यदि तद् बीजम् एकक्षणम् अपि एकरूपम् अस्थास्यत्, तर्हि शुष्कवृक्षपर्यन्तस्य यात्रां पूर्णां नाकरिष्यत् । प्रथमस्य स्वरूपस्य त्यागोत्तरं द्वितीयरूपधारणं तस्य मृत्योः उत्तरं जन्म उच्यते । एवं तद्बीजं प्रतिक्षणं जन्म, मृत्युं च प्राप्नोति स्म । बीजवदेव शरीरम् अस्ति । सूक्ष्मतया पश्यामश्चेत्, वीर्यस्य रजन्या सह संयोगे सति गर्भः अभवत् । गर्भस्य विकासे क्रमशः बालरूपं प्रत्यक्षं समुद्भूतम् । ततः शरीरं जन्मोत्तरं क्रमशः वृद्धिं प्राप्य अन्ते मृतम् । तस्यां प्रक्रियायां शरीरम् एकक्षणम् अपि स्थिरं नातिष्ठत् । प्रत्येकं क्षणं तज्जन्म, मृत्युं च प्राप्नोत् । अतः भगवान् कथयति यद्, यदि त्वं शरीरवच्छरीरिणम् अपि जन्ममृत्युसहितं मन्यसे, तथापि शोकाय तु अवकाशः नास्ति इति ।

शाङ्करभाष्यम् [१]

आत्मनः अनित्यत्वमभ्युपगम्य इदमुच्यते -

अथ च इति अभ्युपगमार्थः। एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो न एवं शोचितुमर्हसि जन्मवतो नाशो नाशवतो जन्मश्चेत्येताववश्यंभाविनाविति।।

भाष्यार्थः

औपचारिकरूपेण आत्मनः अनित्यतां स्वीकृत्य अग्रे कथयति यद् –

'अथ', 'च' इत्येतयोः अव्यययोः औपचारिकताबोधकत्वं स्वीकर्तव्यम् । यद्यपि त्वम् एनम् आत्मानं सर्वदा जन्यमानम् अङ्गीकरोति, अर्थात् लोकप्रसिद्ध्यानुसारं प्रत्येकेषां शरीराणां जन्मना सह आत्मनः अपि जन्म भवति, तथा च शरीरे मृते आत्मा अपि म्रियते इति मन्यसे, तथापि नित्यं जन्ममृत्य्वोः चक्रे विद्यमानस्य आत्मनः कृतेऽपि हे महाबाहो त्वया शोकः न कर्तव्यः । किञ्च प्राप्तजन्मनः मृत्युः, मृतस्य च जन्म निश्चितम् अस्ति इति ।

रामानुजभाष्यम्

अथ नित्यजातं नित्यमृतं  देहम् एव  एनम्  आत्मानं  मनुषे  न देहातिरिक्तम् उक्तलक्षणं  तथापि  एवम् अतिमात्रं  शोचितुं न अर्हसि।  परिणामस्वभावस्य देहस्य उत्पत्तिविनाशयोः अवर्जनीयत्वात्।

भाष्यार्थः

यदि सर्वदा जन्ममानं, म्रियमाणं च शरीरमेव त्वम् आत्मत्वेन स्वीकरोषि, आत्मा शरीराद्भिन्नः उपर्युक्तैः लक्षणैः युक्तः इति यदि न स्वीकरोषि च, तर्ह्यपि त्वया एतादृशः अतिमात्रः शोकः अनुचितः । यतो हि परिवर्तनशीलस्य शरीरस्य उत्पत्तिः, विनाशश्च अनिवार्यौ स्तः ।


फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
"https://sa.bharatpedia.org/index.php?title=अथ_चैनं_नित्यजातं...&oldid=6609" इत्यस्माद् प्रतिप्राप्तम्