अथ चेत्त्वमिमं धर्म्यं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement अथ चेत्त्वमिमं धर्म्यम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मस्य अपालने का हानिः इति बोधयति । पूर्वस्मिन् श्लोके भगवान् यदृच्छया प्राप्तं धर्मयुद्धं स्वर्गप्राप्तेः साधनम् अस्ति इति उक्त्वा अत्र तस्य धर्मयुद्धस्य अर्थात् स्वकर्तव्यपालनस्य त्यागे का हानिः भवति ? इति एतस्माच्छ्लोकाद् आरभते । सः कथयति यद्, एतादृशं ज्ञात्वाऽपि त्वं युद्धं न करिष्यसि, तर्हि स्वधर्मस्य, कीर्तेः च त्यागं कृत्वा पापं प्राप्स्यसि इति ।

श्लोकः

गीतोपदेशः
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥

पदच्छेदः

अथ, चेत्, त्वम्, इमम्, धर्म्यम्, संग्रामम्, न, करिष्यसि । ततः, स्वधर्मम्, कीर्तिम्, च, हित्वा, पापम्, अवाप्स्यसि ॥

अन्वयः

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
अथ अव्ययम् युद्धारम्भानन्तरम्
चेत् अव्ययम् यदि
त्वम् इमम् युष्मद्-द.सर्व.पं.एक. त्वम् एनम्
धर्म्यम् अ.नपुं.द्वि.एक. धर्मयुक्तम्
सङ्ग्रामम् अ.नपुं.द्वि.एक. रणम्
अव्ययम् न आचरिष्यसि
करिष्यसि √डुकृञ् करणे-पर.कर्तरि, लृट.मपु.एक.
ततः अव्ययम् तर्हि
स्वधर्मम् अ.पुं.द्वि.एक. आत्मधर्मम्
कीर्तिं इ.स्त्री.द्वि.एक. यशश्च
अव्ययम्
हित्वा क्त्वान्तम् अव्ययम् विहाय
पापम् अ.नपुं.द्वि.एक. किल्बिषम्
अवाप्स्यसि अव+आप्लृ व्याप्तौ-पर.कर्तरि, लृट्.मपु.एक. प्राप्स्यसि ।


व्याकरणम्

समासः

  1. स्वधर्मम् = स्वस्य धर्मः, तम्, षष्ठीतत्पुरुषः

कृदन्तः

  1. हित्वा = हि + क्त्वा

तद्धितान्तः

  1. धर्म्यम् = धर्म + यत् (अनपेतार्थे) धर्मम् अनपेतम्, तम् । धर्मयुक्तम् इत्यर्थः ।

अर्थः

हे अर्जुन ! इदानीं तव धर्म्यं युद्धं प्राप्तमस्ति । यदि त्वम् एतद् युद्धं न करिष्यसि तर्हि आत्मधर्मात् च्युतः भविष्यसि । तव अपकीर्तिः भविष्यति । एतेन त्वं पापमपि अवाप्स्यसि ।

भावार्थः [१]

'अथ चेत्त्वमिमं...पापमवाप्स्यसि' – अत्र 'अथ' इत्यव्ययस्य पक्षान्तरत्वेन उपयोगः । 'चेद्' इत्यस्याव्ययस्य च सम्भावनाऽर्थे उपयोगः । तात्पर्यम् अस्ति यद्, यद्यपि स्वस्य क्षात्रधर्मानुसारं त्वं युद्धं करिष्यत्येव [२], परन्तु यदि त्वं युद्धं न करिष्यसि, तर्हि त्वं स्वक्षात्रधर्मस्य त्यागं करिष्यसि । क्षात्रधर्मस्य त्यागे त्वं पापी भविष्यसि, कीर्तिः ते नङ्क्ष्यति (नष्टा भविष्यति) इति । यदृच्छं प्राप्तं स्वधर्मं त्यक्ष्यसि चेद्, अग्रे त्वं किं करिष्यसि ? स्वधर्मस्य त्यागे त्वया परधर्मणः स्वीकारः करणीयो भविष्यति । तेन त्वं पापभाक् भविष्यसि । "मृत्योः भयाद् अर्जुनसदृशः शूरवीरः अपि भीतः अभवत्" इति ते युद्धस्य त्यागे अन्ये मंस्यन्ते । तेन ते कीर्तिः नङ्क्ष्यति ।

शाङ्करभाष्यम् [३]

एवं कर्तव्यताप्राप्तमपि -

अथ चेत् त्वम् इमं धर्म्यं  धर्मादनपेतं विहितं  संग्रामं  युद्धं  न करिष्यसि  चेत्  ततः  तदकरणात्  स्वधर्मं कीर्तिं च  महादेवादिसमागमनिमित्तां  हित्वा  केवलं  पापम् अवाप्स्यसि।।

भाष्यार्थः

एतादृशं कर्तव्यपूर्णतया कर्मणि प्राप्ते सत्यपि –

यदि त्वं धर्मयुद्धं न करिष्यसि, तर्हि तस्य युद्धस्य अकृते स्वधर्मस्य नाशः भविष्यति । तथा च महादेवादिभिः सह कृतात् युद्धात् या कीर्तिः प्राप्ता, सा अपि विनङ्क्ष्यति । तावदेव न, त्वं पापम् अपि अवाप्स्यसि ।

रामानुजभाष्यम् [४]

अथ  क्षत्रियस्य स्वधर्मभूतम्  इमम्  आरब्धं  संग्रामं  मोहाद् अज्ञानात्  न करिष्यसि चेत् ततः  प्रारब्धस्यधर्मस्याकरणात् स्वधर्मफलं निरतिशयसुखं विजयेन निरतिशयां  कीर्तिं च हित्वा पापं  निरतिशयम्  अवाप्स्यसि।

भाष्यार्थः

क्षत्रियधर्मरूपम् आरब्धम् एतत् युद्धं यदि त्वं मोहत्वाद् (अज्ञानत्वाद्) न करिष्यसि, तर्हि आरब्धस्य धर्मस्य सम्पादनम् अकृते त्वं स्वधर्मपालनस्य फलं (निरतिशयं सुखं), पूर्वविजयेभ्यः प्राप्तां कीर्तिं च त्यक्त्वा निरतिशयपापी भविष्यसि ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १८, श्लो. ६०
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. रामानुजभाष्यम्