अत्र शूरा महेष्वासा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्थः (४) श्लोकः ।

पदच्छेदः

अत्र, शूराः, महेष्वासाः, भीम-अर्जुनसमाः, युधि । युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥४॥

अन्वयः

अत्र महेष्वासाः युधि भीम-अर्जुनसमाः शूराः युयुधानाः च विराटः च महारथः दृपदः ॥४॥

शब्दार्थः

अत्र = अस्मिन् स्थले
महेष्वासाः = महाचापवन्तः
युधि = युद्धे
भीमार्जुनसमाः = भीम-अर्जुनसमाः समानाः
शूराः = वीराः
युयुधानाः च = युयुधानाः
विराटः च = विराटः
महारथः = योधानां दशसहस्रेण योद्धा
द्रुपदः = द्रुपदः

अर्थः

श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अत्र_शूरा_महेष्वासा...&oldid=306" इत्यस्माद् प्रतिप्राप्तम्