अण्ण मणि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist अण्णमणि (२३ आगस्ट् १९१८-१६ आगस्ट् २००१) भारतीया भौतशास्त्रज्ञा, वातावरणतज्ञा च । [१] सा भारतीय-मौसम-विज्ञानविभागस्य उपनिर्देशिका आसीत् । वातावरणोपकरणानां क्षेत्रे तस्याः योगदानं महत्त्वभूतं वर्तते। सूर्यरश्मिविकिरणविषये, ओजोन्-विषये, वायुशक्तिविषये च तया संशोधनं कृतं, बहूनि शोधपत्राणि प्रस्तुतानि च । [२]

बाल्यम्

अण्ण मणि केरलस्य तिरुवनन्तपुरस्य पीरुमेडु-प्रदेशे जन्म प्राप्नोत् ।[३] तस्याः पिता अभियन्ता आसीत् । कुटुम्बस्य अष्टसु अपत्येषु सा सप्तमम् अपत्यम् । बाल्ये पठने तस्याः महती अभिरुचिः आसीत् । सा महात्मा गान्धिवर्येण प्रभाविता आसीत् । खादिवस्त्राणि एव तया ध्रियन्ते स्म । आदौ सा वैद्यकीयशिक्षणं प्राप्तुम् इष्टवती, किन्तु अग्रे सा भौतशास्त्राध्ययनम् अकरोत् । सा चेन्नैनगरस्थेन प्रेसिडेन्सिमहाविद्यालयतः १९३९ तमे वर्षे भौत-रसायनशास्त्रयोः विज्ञानपदवीं प्राप्तवती ।

वृत्तिजीवनम्

प्रेसिडेन्सिमहाविद्यालयतः पदवीप्राप्तेः अनन्तरं सा सि वि रामन्वर्त्यस्य मार्गदर्शने वज्रमाणिक्ययोः प्रकाशीयगुणविषये संशोधनम् अकरोत् । [२] तया पञ्च संशोधनपत्राणि प्रस्तुतानि किन्तु तया विद्यावारिधिपदवी न प्राप्ता यतः तया भौतशास्त्रे स्नातकोत्तरपदवी न प्राप्ता आसीत् । ततः सा भौतशास्त्रे अधिकाध्ययनाय सा ब्रिटन् गतवती किन्तु सा लण्डन्नगरस्थे इम्पेरियल्-महाविद्यालये अन्तरिक्षविज्ञानस्य उपकरणानाम् अध्ययनम् अकरोत् । [३] १९४८ तमे वर्षे भारतं प्रति प्रत्यागमनानन्तरं पुणेनगरस्थे अन्तरिक्षविद्याविभागे उद्योगिनी जाता । अन्तरिक्षविद्यायाः उपकरणानां विषये तया अनेकानि शोधपत्राणि प्रस्तुतानि । सा १९७६ तमे वर्षे भारतीय-अन्तरिक्षविद्याविभागस्य उपनिर्देशिकारूपेण निवृत्ता अभवत् ।

१९९४ तमे वर्षे सा पक्षाघातेन अस्वस्था जाता, २००१ तमस्य वर्षस्य आगस्ट्मासस्य १६ दिनाङ्के तिरुवनन्तपुरे सा दिवङ्गता । [१]

प्रकाशिताः ग्रन्थाः

  • 1980. The Handbook for Solar Radiation data for India

पुरस्काराः

  • 1987: medalla K.R. Ramanathan[३]

उल्लेखाः

फलकम्:Reflist

बाह्यसम्पर्काः

अण्ण मण्याः परिचयः

"https://sa.bharatpedia.org/index.php?title=अण्ण_मणि&oldid=2680" इत्यस्माद् प्रतिप्राप्तम्