अण्डोरा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Distinguish फलकम्:Other uses फलकम्:Use dmy dates फलकम्:Coord फलकम्:Infobox country


अण्डोरा (फलकम्:IPAc-en) अथवा प्रिन्सिपालिटी आफ् अण्डोरा,[१] इत्येतत् यूरोपभूखण्डस्य दक्षिणभागे, पैरनीस् पर्वतश्रेण्याः पूर्वस्यां दिशि स्थितं किञ्चन स्वतन्त्रं लघु राज्यम् । एतत् राज्यं परितः फ्रान्स्-स्पैन् देशयोः सीमा वर्तते । इदं राज्यं क्रिस्तीये ९८८ तमे वर्षे उत्पन्नम् । किन्तु एतस्य इदानीन्तनं स्वरूपं क्रिस्तीये १२७८ तमे वषे प्राप्तम् । रोमन् केथोलिक् बिषप् आफ् अर्जेल् इत्येतेन फ्रान्स् देशस्य राष्ट्राध्यक्षेण च एतत् राज्यं निरङ्कुशं शास्यते इत्यतः एतत् प्रिन्सिपालिटी व्यपदिश्यते ।

अण्डोरा-राज्यं यूरोप्-खण्डस्य लघुतमेषु राज्येषु षष्ठं स्थानं भजते। एतस्य राज्यस्य विस्तारः ४६८ चतरस्रकिलोमीटर्परिमितः तथा च जनसंख्या उपपञ्चाशीतिसहस्रं विद्यते । एतस्य राजदानी 'अण्दोरा ला वेल्ला' सर्वाभ्यः यूरोपीयदेशानां राजधानीभ्यः उन्नतस्थाने वर्तमाना यस्याः औन्नत्यं समुद्रस्तरात् १०२३ मीटर् भवति[२] । अत्रत्या प्रमुखा भाषा तु ’कतलान्’ नामिका किन्तु स्पानीष्-पोर्चुगीस्-फ्रेञ्च्-भाषाभिरपि बहवः व्यवहरन्ति ।[३] प्रतिवर्षम् अत्र दशलक्षाधिकाः आगच्छन्ति ।[४] एतत् यूरोपिय-राष्ट्रसङ्घस्य सदस्यं न , किन्तु ’ यूरो ’ इत्येत एतस्य राजस्य धनम् । १९९३ तः आरभ्य एतत् “ युनैटेड् नेषन्स् “ इत्यस्य राष्ट्रसमुदायस्य सदस्यम् अस्ति ।[५]


बाह्यसम्पर्काः


टिप्पणी

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=अण्डोरा&oldid=4679" इत्यस्माद् प्रतिप्राप्तम्