अग्निर्ज्योतिरहः शुक्लः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य चतुर्विंशतितमः (२४) श्लोकः ।

पदच्छेदः

अग्निः र्ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदः जनाः ॥ २४ ॥

अन्वयः

अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणं तत्र प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति ।

शब्दार्थः

अग्निः = अनलः (देवता)
ज्योतिः = कान्तिः
अहः = दिवसः
शुक्लः = शुक्लपक्षः
षण्मासाः उत्तरायणम् = षण्मासावधिकमुत्तरायणम्
तत्र = तस्मिन् काले
प्रयाताः = गताः
ब्रह्मविदः = ब्रह्मोपासकाः
जनाः = मानवाः
ब्रह्म = परं वस्तु
गच्छन्ति = यान्ति ।

अर्थः

यत्र अनलः (देवता) कान्तिः (देवता) दिवसः (देवता) शुक्लपक्षः षण्मासावधिकम् उत्तरायणम् (देवता) तस्मिन् काले गताः ब्रह्मोपासकाः जनाः ब्रह्म गच्छन्ति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः