अखिलभारतीयायुर्विज्ञानसंस्थानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox university अखिलभारतीयायुर्विज्ञानसंस्थानम् (आङ्ग्लः-National Institute of Ayurveda) काचित् आयुर्वेदसम्बद्धा संस्था भवति । जवाहरलालनेहरुमहाभागस्य स्वप्नः आसीत् “भारतदेशः वैज्ञानिकसांस्कृतिकसम्पदा युक्तः भवेत् इति ।

वैद्यकविज्ञानक्षेत्रे प्रकृष्टमेकं केन्द्रं स्थापनीयं यत्र च वैद्यविज्ञाने संशोधनं भवेत्” इति । तदानीन्तन-आरोग्यमन्त्रिणी राजकुमारी अमृताकौर् सहानुमतं प्रकटितवती । न्यूझीलेण्ड्सर्वकारस्य "कोलोम्बोप्लान्" इति नाम्ना धनसाहाय्यम् अपि प्राप्तम् । १९५२ तमे वर्षे अखिलभारतीयायुर्विज्ञानसंस्थानस्य कार्यं आरब्धम् । आरोग्यरक्षणे प्रकृष्टं कार्यं कुर्वदस्ति एतत् संस्थानम् । अत्र स्नातकोत्तर-स्नातकपूर्वकक्ष्याः प्रचलन्ति । आरोग्यविषयकं ज्ञानम् एकत्र लभेत इति अस्य आशयः । अत्र अध्ययनाध्यापनार्थं , रोगिणाम् अवधानार्थं च व्यवस्था प्रकल्पिता वर्तते । अत्र ४२ विभिन्नविषयेषु अध्ययनाध्यापनं संशोधनं च प्रचलति । अत्र शुश्रूषकाणाम् एकः महाविद्यालयः विद्यते यत्र ये अध्ययनं कुर्वन्ति । ते बि.एस्.सि पदवीं प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तवः