अक्षरं ब्रह्म परमं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Merge to

श्लोकः

गीतोपदेशः

श्री भगवानुवाच -

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य तृतीय:(३) श्लोकः ।

पदच्छेदः

अक्षरं ब्रह्म परमं स्वभावः अध्यात्मम् उच्यते भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः ॥ ३ ॥

अन्वयः

परमम् अक्षरं ब्रह्म, स्वभावः अध्यात्मम् उच्यते । भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः ।

शब्दार्थः

अक्षरम् = विनाशरहितः परमात्मा
परमम् = अत्युत्तमम्
ब्रह्म = ब्रह्म (उच्यते)
स्वभावः = जीवरूपेण देहे भवनम्
अध्यात्मम् = अध्यात्मम्
उच्यते = कथ्यते
भूतभावोवकरः = भूतानाम् उत्पत्तेः वृद्धेः च कारणम्
विसर्गः = यज्ञः
कर्मसंज्ञितः = कर्मनामकः ।

अर्थः

अत्युत्तमं विनाशरहितं सर्वव्यापकं च ब्रह्म इत्युच्यते । तादृशस्य ब्रह्मणः जीवरूपेण शरीरे अवस्थानम् अध्यात्मं कथ्यते । सर्वेषां भूतानाम् उत्पत्तौ वृद्धौ च कारणीभूतः यज्ञः (देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य विसर्जनम्) कर्म इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अक्षरं_ब्रह्म_परमं...&oldid=6914" इत्यस्माद् प्रतिप्राप्तम्