अकीर्तिं चापि भूतानि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Merge to फलकम्:तलं गच्छतु फलकम्:Infobox settlement अकीर्तिं चापि भूतानि (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अपकीर्तेः दुःखं वर्णयति । पूर्वस्मिन् श्लोके स्वधर्मत्यागे पापम्, अकीर्तिः च भविष्यति इति उक्त्वा अत्र भगवान् अपकीर्तेः विशेषम् अन्यदुःखं नास्ति इति वदति । सः कथयति यत्, सर्वेऽपि प्राणिनः ते चिरकालीनायाः अपकीर्तेः स्मरणं करिष्यन्ति । सा अपकीर्तिः सम्मानितमनुष्येभ्यः मृत्योः अपेक्षयाऽपि अधिकं दुःखदायिनी भवति इति ।

श्लोकः

गीतोपदेशः
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥

पदच्छेदः

अकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम् । सम्भावितस्य, च, अकीर्तिः, मरणात्, अतिरिच्यते ॥

अन्वयः

भूतानि च ते अव्ययाम् अकीर्तिं चापि कथयिष्यन्ति । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
भूतानि अ.नपुं.प्र.बहु. जनाः
ते तद्-द.सर्व.ष.एक. तव
अव्ययाम् आ.स्त्री.द्वि.एक. अनश्वरीम्
अकीर्तिं इ.स्त्री.द्वि.एक. दुष्कीर्तिं
च अपि अव्ययम्
कथयिष्यन्ति √कथ वाक्यप्रबन्धने-पर.कर्तरि, लृट्.प्रपु.बहु. वर्णयिष्यन्ति
सम्भावितस्य अ.पुं.ष.एक. मान्यस्य जनस्य
अव्ययम्
अकीर्तिः इ.स्त्री.प्र.एक. दुष्कीर्तिः
मरणात् अ.नपुंं.पं.एक. मृत्योः
अपि अव्ययम् अपि
अतिरिच्यते √अति+रिच वियोजनसम्पर्चनयोः-आत्म.कर्तरि, लट्.प्रपु.एक. अतिशेते ।

व्याकरणम्

सन्धिः

  1. चापि = च + अपि – सवर्णदीर्घसन्धिः
  2. तेऽव्ययाम् = ते + अव्ययाम् - पूर्वरूपसन्धिः
  3. चाकीर्तिः = च + अकीर्तिः – सवर्णदीर्घसन्धिः
  4. अकीर्तिर्मरणात् = अकीर्तिः + मरणात् – विसर्गसन्धिः (रेफः)
  5. मरणादतिरिच्यते = मरणात् + अतिरिच्यते – जश्त्वसन्धिः

कृदन्तः

  1. सम्भावितस्य = सम् + भू + णिच् + क्त (कर्मणि) तस्य

अर्थः

यदि त्वं युद्धं न करिष्यसि तर्हि जनाः दीर्घकालं यावत् तव अकीर्तिं कथयिष्यन्ति । सर्वैरपि प्रशंसनीयस्य मानिनः च जनस्य अकीर्तिः मरणादपि अधिकां पीडां जनयति ।

भावार्थः [१]

'अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्' – मनुष्यादिषु प्राणिषु ते धर्मत्यागरूपिणी कापुरुषता उदाहरणं भविष्यति । लोके सर्वे ते अपयशसः गानं कुर्वन् कथयिष्यन्ति यद्, अर्जुनः कीदृशः भीरुः आसीद् यद्, क्षात्रधर्माद् विमुखो अभवत् । सर्वे तु तं शूरवीरं मन्यमानाः आसन्, परन्तु युद्धे सम्प्राप्ते तस्य वास्तविकता अर्थाद् भीरुता प्रत्यक्षा अभवद् इत्यादि । 'ते' इत्यस्य पदस्य भावः अस्ति यद्, स्वर्ग-मृत्यु-पाताल-लोकेषु अपि यस्य शौर्यं प्रसिद्धम् अस्ति, तत्रापि ते अपकीर्तिः भविष्यति इति । 'अव्ययाम्' इत्यस्य तात्पर्यम् अस्ति यद्, यः मनुष्यः श्रेष्ठतायाः कारणेन अधिकः प्रसिद्धः भवति, तस्य कीर्तिः, अपकीर्तिः च दीर्घकालं यावत्तिष्ठति इति ।

'सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' – एतस्य श्लोकस्य पूर्वार्धे भगवान् साधारणप्राणिभिः अर्जुनस्य निन्दायाः चर्चां करोति । उत्तरार्धे च जनसामान्येभ्यः कीर्तेः किं महत्त्वम् अस्ति ? इति वर्णयति । सांसारिकदृष्ट्या या व्यक्तिः श्रेष्ठा मन्यते, तस्याः व्यक्तेः यदा अपकीर्तिः भवति, तदा सा अपकीर्तिः मृत्योः अधिका भयङ्करी भवति । किञ्च मृते सति आयुष्यं समाप्तं भवति, तत्र कोऽपि अपराधस्तु नास्ति खलु ! । परन्तु अपकीर्तौ सति तु स्वधर्मात्, कर्तव्याच्च च्युतिः मन्यते । अतः लोके श्रेष्ठम्मन्यमानानां पुरुषाणां कर्तव्यच्युतिः अतीव भयङ्करम् अपयशः मन्यते ।

शाङ्करभाष्यम् [२]

न केवलं स्वधर्मकीर्तिपरित्यागः -

अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते  तव  अव्ययां  दीर्घकालाम्। धर्मात्मा शूर इत्येवमादिभिः गुणैः  संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते  संभावितस्य च अकीर्तेः वरं मरणमित्यर्थः।।

भाष्यार्थः

केवलं स्वधर्मस्य, कीर्तेः एव नाशः भविष्यति इत्येव नालम् –

चिरकालं यावद् या अपकीर्तिः भविष्यति, तेन ते निन्दा अपि भविष्यति । धर्मात्मा, शूरः इत्यादिभिः गुणैः प्राप्तप्रतिष्ठाय पुरुषाय अपकीर्तिः मरणादपि निम्ना भवति । अभिप्रायः अस्ति यद्, प्रतिष्ठितेभ्यः पुरुषेभ्यः अपकीर्तेः अपेक्षया मरणं वरम् इति ।

रामानुजभाष्यम् [३]

न केवलं निरतिशयसुखकीर्तिहानिमात्रं पार्थो युद्धे प्रारब्धे पलायित इति अव्ययां सर्व देशकालव्यापिनीम्  अकीर्तिं च  समर्थानि असमर्थानि सर्वाणि  भूतानि कथयिष्यन्ति  ततः किमिति चेत् शौर्यवीर्यपराक्रमादिभिः सर्व संभावितस्य  तद्विपर्ययजा हि  अकीर्तिः मरणाद् अतिरिच्यते।  एवंविधाया अकीर्तेः मरणम् एव तव श्रेयः इत्यर्थः।

भाष्यार्थः

न केवलं निरतिशयसुखस्य, निरतिशयकीर्तेः च हानिः भविष्यति, अपि तु 'युद्धारम्भात् समनन्तरमेव अर्जुनः युद्धं त्यक्त्वा पलायितः' इत्येताम् अव्ययाम् अर्थाद् सर्वत्र देशकालव्याप्तताम् अकीर्तिं समर्थकाः, असमर्थकाश्च करिष्यन्ति । एवं जाते किं भविष्यति ? इति चेद्, शौर्यवीर्यपराक्रमादिसन्दर्भे यस्य पुरुषस्य सर्वजनसम्माननम् अस्ति, तस्य कृते तेषां शौर्यादिगुणानां विपरीततया अर्थात् कापुरुषतादिप्रभावेण जायमाना अपकीर्तिः मृत्योः अपि निकृष्टा भवति । अभिप्रायः अस्ति यद्, तादृश्या अपकीर्त्या अपेक्षया ते मरणम् एव श्रेयस्करं भवेत् इति । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्
"https://sa.bharatpedia.org/index.php?title=अकीर्तिं_चापि_भूतानि...&oldid=9566" इत्यस्माद् प्रतिप्राप्तम्