अं

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

अं कारः
उच्चारणम्

एषः वर्णमालायां चतुर्दशः वर्णः। अयं स्वतन्त्रः वर्णः न। अकारादिभिः स्वरैः सह योगे सति एव एतस्य उच्चारणं सुशकम्। अतः योगवाहः अथवा "अ"योगवाहः इति अस्य संज्ञा। स्वरान् अनुसृत्य उच्यते, स्वतन्त्रतया नोच्चार्यते इति हेतोः "अनुस्वारः" इति संज्ञा भवति। देशीयभाषासु अनुनासिकानां परत्वेनापि अनुस्वार एव प्रयुज्यते। यथा- अङ्क इति वक्तव्ये अंक इति। किन्तु संस्कृते तथा नास्ति। "नासिकानुस्वारस्य" इति सिद्धान्तकौमुद्यामपि अनुस्वारस्य उच्चारणस्थानं नासिका इत्युक्तम्।

"https://sa.bharatpedia.org/index.php?title=अं&oldid=335" इत्यस्माद् प्रतिप्राप्तम्