संगोल्लि रायण्णः

भारतपीडिया तः
१२:२६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

परिचयः

संगोल्लि रायण्णः महोदयः प्रसिद्धः स्वतन्त्र सेनानिः आसीत् । सः कर्णाटकस्य कित्तूरु राज्यस्य सेनाधिपतेः रूपे कार्यं निर्वाहितवान् । रायण्णः १७५८ तमे वर्षे आगास्त् मासस्य पञ्चादश तमे दिने उत्तरकर्णाटकस्य संगोल्लि ग्रामे जातः । सः कुरुब-गौडा समुदाये जन्मं प्राप्तवान् ।

क्रान्तिवीर संगोल्लि रायण्णः

स्वातन्त्रा संग्रामे योगदानां

नवदशतमे शतके यद आङ्ग्लदेशिकाः कित्तूरु राज्यस्य राणि चेन्नम्मा पीडयन्ति स्म तदा रायण्णः ग्रामस्थान् जनान् एकीकृत्य तेषां नायको भूत्वा परदेशीनां आङ्ग्लानां गृहान् अवदहति स्म, तेषां राजकोशान् चोरयति स्म च । ईदृशौः व्यवहारैः क्रोधिताः आङ्ग्ल जनाः तस्य तस्य बन्धूनां भूमीं सम्पदं च स्ववशं अकुर्वन् । राणिचेन्नम्मायाः सङ्ग्रामे रायण्ण महोदयः प्रमुखं पात्रं अवहन् । यदा सा राणी वीरगतिं प्राप्ता तदापि एषः वीरपुरुषः पराजयं न स्वीकारं अकरोत् ।

निगूडरूपेण निपुणतया च वारं वारं सः आङ्ग्ल सैनिकान् उपरि आक्रमणं कुर्वन् आसीत् । परन्तु विधिविपर्यासेन कस्यचित् द्रोहिणः सहायेन आङ्ग्लाः तं बन्धी कुर्वन्ति स्म । तेषां बन्धने एतेन शूरेण १८३१ तमे वर्षे जनवरि मासस्य २६ तमे दिवसे वीरस्वर्गं प्राप्तः । तस्य अन्तिमक्रया नन्दगड ग्रामे कृता ।


अद्यापि राणि चेन्नम्मायाः रायण्ण महोदयस्य च वीरगाया जनाः गानरूपे गायन्ति । रायण्ण महोदयस्य स्मरणे २०१५ तमे वर्षे कर्णाटक राज्यसर्वकारः बेङ्ग्लूरु नगरस्य रैल् स्थानकस्य नामं " क्रान्तिवीर संगोल्लि रायण्ण रैल्स्थानकं " इति नामतस् अकरोत् ।

क्रान्तिवीर संगोल्लि रायण्ण रैल्स्थानकं
"https://sa.bharatpedia.org/index.php?title=संगोल्लि_रायण्णः&oldid=4952" इत्यस्माद् प्रतिप्राप्तम्