वायुः

भारतपीडिया तः
१२:३९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु

वायोः गुह्यस्वरूपम्

वायुः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते ।[१]

पृथिव्याः परितः वायूनाम् आवरणम् अस्ति । तत् आवरणं वायुमण्डलं कथ्यते । जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते । सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति । यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः । अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति ।[२]

वायुमण्डलं विभिन्नवायूनां मिश्रणम् अस्ति । एभिः वायुभिः पृथिवी आच्छादिता वर्तते । अस्मिन् वायुमण्डले मनुष्याणां जन्तूनां च जीवनाय आवश्यकवायुः ऑक्सीजन् इति प्राप्यते । पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते । वायुः वर्णहीनः, गन्धहीनः च भवति । यदा वायुः प्रवहति, तदा पवनः कथ्यते । पवनः अनुभवितुं शक्यते ।[३]

वायुमण्डलस्य सङ्घटनम्

वायुमण्डलं वायुभिः, जलबाष्पेन, रजकणैः च निर्मितम् अस्ति । श्वसनक्रियायां वयं वायोः उपयोगं कुर्मः । वास्तविकतया वायुमण्डलम् अनेकानां वायूनां मिश्रणं भवति । वायुमण्डले बहवः वायवः प्राप्यन्ते । यथा – नाइट्रोजन्, ऑक्सीजन्, कार्बन् डाई ऑक्साइड्, हीलियम्, ऑजोन्, ऑर्गान्, हाइड्रोजन् च । तेषु नाइट्रोजन्, ऑक्सीजन्वायुमण्डलस्य बृहत्तमेषु भागेषु प्राप्यते । अन्ये वायवः अल्पमात्रायां प्राप्यन्ते । वायुमण्डले रजकणाः अपि सन्ति ।[४]

वायुमण्डले स्थितानां वायूनां द्रव्यमानम् अधः लिखितम् अस्ति ।[५]

वायवः(गैस)

नाइट्रोजन्

नाइट्रोजन् इति वायुः वायुमण्डले सर्वाधिकमात्रायां विद्यते । श्वसनक्रियायाम् ऑक्सीजन् इत्यनेन वायुना सह नाइट्रोजन् अपि वयं स्वीकुर्मः । तं स्वीकृत्य वयं पुनः निष्कासयामः । पादपानां विकासाय नाइट्रोजन् इत्यस्य वायोः आवश्यकता वर्तते । किन्तु ते पादपाः वायुमण्डलात् साक्षात् नाइट्रोजन् स्वीकर्तुम् असमर्थाः भवन्ति ।[६]

ऑक्सीजन्

वायुमण्डले ऑक्सीजन् अपि पर्याप्तमात्रायां प्राप्यते । मनुष्याः पशवश्च वायुमण्डलात् ऑक्सीजन् प्राप्नुवन्ति । हरिताः पादपाः प्रकाशसंश्लेषणप्रक्रियया ऑक्सीजन् इत्ययं वायुम् उत्पादयन्ति । तेन कारणेन वायुमण्डले ऑक्सीजन् वायोः मात्रा समानं भवति । यदि वृक्षच्छेदनं कुर्मः चेत् अस्य सन्तुलनम् अव्यवस्थितं भवति ।[७]

कार्बन् डाई ऑक्साइड्

कार्बन् डाई ऑक्साइड् इत्ययम् ऋतुविज्ञानदृष्ट्या अतिमहत्वपूर्णः वायुः वर्तते । हरितपादपाः भोजनरूपेण कार्बन् डाइ ऑक्साइड् इतीमं वायुं स्वीकुर्वते । ततः परं पादपाः ऑक्सीजन् वायुं प्रतिददति । मनुष्याः, पशवः च कार्बन् डाई ऑक्साइड् वायुं निष्कासयन्ति । जीवानां पादपानां च परस्परप्रक्रियया वायुमण्डलं सन्तुलितं भवति । किन्तु अङ्गाराणां, खानिजतैलानां च ज्वालनेन अस्य स्थितिः दूषिता भवति । तेन कारणेन प्रतिवर्षं कोटि टन् कार्बन् डाई ऑक्साइड् वायोः वृद्धिः भवति । कार्बन् डाई ऑक्साइड् वायोः वृद्ध्या पृथिव्याम् ऋतवः, जलवायवः च प्रभाविताः भवन्ति ।[८]

कार्बन् डाई ऑक्साइड् वायुमण्डले आस्तीर्य (spread) पृथिव्या विकिरिताः उष्माः पृथिव्याम् एव अवरुध्य ग्रीन् हाऊस् इति उत्पादयति । अतः अयं ग्रीन् हाऊस् वायुः अपि कथ्यते । अस्य वायोः अभावे पृथिव्याम् अत्यधिकशीतलता भवति । तेन कारणेन पृथिव्यां निवासः अशक्यः भवति । यदा यन्त्रागाराणां यानानां धूमेन वायुमण्डले कार्बन् डाई ऑक्साइड् इत्यस्य स्तरः वर्धते, तदा अत्यधिकोष्मायाः कारणेन पृथिव्याः तापमाने वृद्धिर्भवति । इदं भूमण्डलीयं तापमानं कथ्यते । तापमानवृद्ध्या पृथिव्याः शीतलप्रदेशानां हिमानि द्रवन्ते । तेन कारणेन समुद्रस्य जलस्तरे वृद्धिर्भवति । अतः तटीयक्षेत्रेषु जलेन हानिः भवति । अस्य परिणामेन पादपानां नाशः, पशूनां, मनुष्याणां च मृत्युः भवति । [९]

जलबाष्पः

जलबाष्पः वायुमण्डलस्थः परिवर्तनीयः वायुः वर्तते । औन्नत्ये सति अस्य क्षयः भवति । उष्णकटिबन्धक्षेत्रे, उष्णार्द्रकटिबन्धक्षेत्रे च अयं ४% भवति । शीतलप्रदेशेषु , मरुस्थलेषु च अयं १% भवति । विषुवत्वृत्ततः ध्रुवपर्यन्तं जलवाष्पस्य मात्रा न्यूना भवति । अयं जलबाष्पः सूर्यस्य किञ्चित् तापम् अवशोषयति । पृथिव्याः जायमानं तापं सङ्गृह्णाति । जलबाष्पेन पृथिव्याः तापमानं सन्तुलितं भवति । जलबाल्पेन वायुः स्थिरः, अस्थिरः च भवति ।[१०]

रजकणाः

वायुमण्डले लघुकणाः अपि विद्यमानाः भवन्ति । यथा – समुद्रलवणं, मृत्तिका, धूमः, राक्षः, परागः, रजः, उल्कानां लघुकणाः च । यद्यपि वायुमण्डलस्य अधः भागे रजकणाः विद्यन्ते, तथापि वायुप्रवाहेण रजकणाः औन्नत्यं प्राप्नुवन्ति । रजस्य, लवणस्य च कणाः आर्द्रताग्राहीकेन्द्रत्वेन कार्यं कुर्वन्ति । तेन कारणेन परितः जलबाष्पः सङ्घनितः भवति । तदनन्तरं मेघानां निर्माणं कारयति ।[११]

वायुमण्डलस्य संरचना

फलकम्:मुख्यलेखः वायुमण्डलं पृथक्-पृथक् घनत्वस्य, तापमानस्य च स्तरैः निर्मितम् अस्ति । पृथिव्याः स्तरे घनत्वम् अधिकं भवति । किन्तु औन्नत्ये सति घनत्वस्य क्षयः भवति ।

वायुमण्डलं स्थलमण्डलात् १६०० कि. मी. पर्यन्तम् उन्नतम् अस्ति । घटकानां, तापमानस्य च आधारेण वायुमण्डलस्य पञ्च भागाः सन्ति । स्थलमण्डलात् तेषां मण्डलानां क्रमशः स्थानं वर्तते । तेषु – क्षोभमण्डलं, समतापमण्डलं, मध्यमण्डलं, बाह्यवायुमण्डलं, बहिर्मण्डलं च ।

वायुभारः

वायोः अस्माकं शरीरे उच्चभारः वर्तते । किन्तु वयम् अनुभवितुं न शक्नुमः । कारणं वायूनां भारः अस्माकं शरीरे चतुर्दिग्भ्यः भवति । अस्माकं शरीरं विपरीतबलं कारयति ।

पृथिव्याः स्तरेषु वायूनां भारः वर्तते । सः वायुभारः कथ्यते । वायुमण्डले उपरि गमने सति वायोः भारः न्यूनः भवति । समूद्रस्तरेषु वायोः भारः सर्वाधिकः भवति । अधिकतापमानीयक्षेत्रेषु वायुः उष्णीभूय उपरि गच्छति । सदैव वायुः उच्चभारक्षेत्रात् निम्नभारक्षेत्रपर्यन्तं गच्छति ।[१२]

वायुमण्डलस्य सामान्यं परिसञ्चरणम्

भूमण्डलीयवायूनां प्रारूपाः निम्नलिखितविषयेषु आधारिताः भवन्ति ।

  1. वायुमण्डलीयतापे अक्षांशीयः भिन्नता,
  2. वायुभारपट्टिकानाम् उपस्थितिः,
  3. वायुभारपट्टिकानां सौरकिरणैः सह विस्थापनम्,
  4. महासागराणां, महाद्वीपानां च वितरणम्,
  5. पृथिव्याः घूर्णनम् ।

वायुमण्डलीयवायूनां प्रवाहस्य प्रारूपं वायुमण्डलीयसामान्यपरिसञ्चरणम् अपि कथ्यते । अनेन वायुमण्डलीयपरिसञ्चरणेन महासागरीयजलम् अपि गतिमत् भवति । तेन पृथिव्याः जलवायवः प्रभाविताः भवन्ति ।

वायुमण्डलस्य सामान्यपरिसञ्चरणं महासागरान् अपि प्रभावितान् करोति । वायुमण्डलस्य वायवः महासागरीयजलधाराः अपि प्रभाविताः कुर्वन्ति । महासागरेभ्यः वायुः ऊर्जां, जलबाष्पं च प्राप्यते ।[१३]

ऋतुवायवः

वायूनां प्रवाहस्य प्रारूपे विभिन्नासु ऋतुषु परिवर्तनानि भवन्ति । अत्यधिकतापनेन, वायुभिः, वायुभारपट्टिकानां विस्थापनेन च इमानि परिवर्तनानि भवन्ति । विस्थापनस्य सर्वाधिकः स्पष्टः प्रभावः दक्षिणपूर्व-एशिया इत्यस्मिन् क्षेत्रे प्रावृड्वायूनां परिवर्तने दृश्यते ।[१४]

स्थानीयवायवः

भूतलस्य उष्णशीतलावस्थायां दैनिकं, वार्षिकं च चक्राणां विकासेन अनेके स्थानीयाः, क्षेत्रियाः च वायवः प्रवहन्ति ।[१५]

स्थलवायुः, समुद्रवायुः च

उष्मायाः अवशोषणे, स्थानान्तरणे च स्थले, समुद्रे च भिन्नता प्राप्यते । मध्याह्नकाले स्थलभागः समुद्रस्य अपेक्षया अधिकः उष्णः भवति । अतः स्थलेषु वायवः उपरि गच्छन्ति । तेन निम्नभारक्षेत्रं निर्मितं भवति । परन्तु तस्मिन् एव काले समुद्राः स्थलभागस्य अपेक्षया अधिकाः शीतलाः भवन्ति । अतः तेषु उच्चवायुभारः एव यथावत् भवति । स्थलभागे निम्नभारक्षेत्रेण, समुद्रभागे उच्चभारक्षेत्रेण च वायुभारे गतिः उत्पद्यते । समुद्रात् स्थलं प्रति वायोः गतिः आरभ्यते । तेन वायुः समुद्रात् स्थलां प्रति पवनरूपेण गच्छति । उक्ता प्रक्रिया रात्रौ विपरीतक्रमेण भवति । अत्र उल्लेखनीयम् अस्ति यत्, स्थलं समुद्राणाम् अपेक्षया शीघ्रं शीतलं भवति इति ।[१६]

पर्वतवायुः, शैलप्रस्थवायुः च

मध्याह्नकाले यदा पर्वतीयक्षेत्रेषु शैलप्रस्थाः उष्णाः भवन्ति, तदा वायुः उपरि गच्छति । रात्रिकाले यदा पर्वतीयशैलप्रस्थाः शीतलाः भवन्ति, तदा सघनवायुः शैलप्रस्थे अधः गच्छति । सः वायुः पर्वतीयवायुः कथ्यते । उच्चशैलप्रस्थे, हिमक्षेत्रेषु च प्रवाहितः शीतलवायुः अवरोहिवायुः (Katabatic) इति कथ्यते । आर्द्रवायवः सङ्घनिताः भवन्ति । तदनन्तरं वर्षणं भवति । अस्य विपरीतावस्थायां वायवः शुष्काः भवन्ति । तेन कारणेन शुष्काः वायवः अल्पसमये हिमं द्रवीकर्तुं शक्नुवन्ति ।[१७]

वायुमण्डलस्य सामान्यपरिसञ्चरणस्य महासागरेषु प्रभावः

वायुमण्डलस्य सामान्यपरिसञ्चरणस्य सन्दर्भे प्रशान्तमहासागरस्य उष्णावस्था, शीतलावस्था च अत्यधिका महत्वपूर्णा वर्तते । मध्यप्रशान्तमहासागरस्य उष्णजलधाराः दक्षिण-अमेरिका इत्यस्य तटं प्रति प्रवहन्ति । पीरू इत्यस्य शीतलधाराणां स्थानं स्वीकुर्वन्ति । पीरू इत्यस्य तटेषु उष्णधाराणाम् उपस्थितिः एल्-निनो इति कथ्यते । एल् निनो इत्यस्याः घटनायाः सम्बन्धः मध्यप्रशान्तमहासागरेण, ऑस्ट्रेलिया इत्यस्य वायुभारपरिवर्तनेन च सह वर्तते । प्रशान्तमहासागरे वायुभारपरिवर्तनं दक्षिणीदोलन् इति कथ्यते । अनयोः संयुक्तघटना ई एन् एस् ओ (ENSO) इति कथ्यते । येषु वर्षेषु ई एन् एस् ओ (El Niño Southern Oscillatio-ENSO) शक्तिवान् भवति, तदा दक्षिण-अमेरिका इत्यस्य पश्चिमशुष्कतटेषु अधिका वर्षा भवति ।[१८]

वायुराशयः (Air masses)

यदा वायुः कस्मिंश्चित् समाङ्गिक्षेत्रे पर्याप्तकालं यावत् भवति, तदा सः तस्य क्षेत्रस्य गुणान् धरति । इदं समाङ्गक्षेत्रं विस्तृतमहासागरीयस्तरः विस्तृतस्थलभागः वा भवति । तापमानेन, आर्द्रतया च सम्बद्धः विशिष्टः वायुः "वायुराशिः" इति कथ्यते । येषु समाङ्गिधरातलेषु वायुराशयः भवन्ति, तत्स्थानं वायुराशीनाम् उद्गमक्षेत्रं कथ्यते ।

वायुराशयः स्वस्य उद्गमक्षेत्राणाम् आधारेण वर्गीकृताः भवन्ति । एतेषां प्रमुखाणि पञ्च उद्गमक्षेत्राणि सन्ति ।[१९]

  1. उष्णः उपोष्णः कटिबन्धीयमहासागरः
  2. उपोष्णकटिबन्धीयः उष्णमरुस्थलम्
  3. उच्चाक्षांशीयः अपेक्षाकृतः शीतलः महासागरः
  4. उच्चाक्षांशीयः अतिशीतलं हिमाच्छादितं महाद्वीपीयक्षेत्रम्
  5. स्थायिरूपेण हिमाच्छादितमहाद्वीपः अण्टार्कटिका, आर्कटिकमहासागरः च ।

एतेषामाधारेण निम्नप्रकारकाः वायुराशयः अपि प्राप्यन्ते ।

  1. उष्णकटिबन्धीयमहासागरीयवायुराशिः (mT)
  2. उष्णकटिबन्धीयमहाद्वीपीयः (cT)
  3. ध्रुवीयमहासागरीयः (mP)
  4. ध्रुवीयमहाद्वीपीयः (cP)
  5. महाद्वीपीयः आर्कटिक (cP)

उष्णकटिबन्धीयवायुराशयः उष्णाः भवन्ति । ध्रुवीयवायुराशयः शीतलाः भवन्ति ।

वाताग्रः (Fronts)

यदा द्वौ भिन्नवायुराश्यौ मिलतः, तदा तयोः मध्यसीमाक्षेत्रं वाताग्रं कथ्यते । वाताग्राणां निर्माणप्रक्रिया वाताग्रजननं (Frontogenesis) कथ्यते | वाताग्रस्य चत्वारः प्रकाराः सन्ति

  1. शीतवाताग्रम्
  2. उष्णवाताग्रम्
  3. अचरवाताग्रम्
  4. अधिविष्टवाताग्रम्

यदा वाताग्रं स्थिरं भवति, तदा अचरवाताग्रम् उच्यते । यदा शीतलः वायुः भीषणतया उष्णवायुराशौ क्षिप्यते, तदा तत्क्षेत्रं शीतवाताग्रम् उच्यते । यदा उष्णवायुराशयः भीषणतया शीतवायुराशौ क्षिप्यते, तदा तत्क्षेत्रम् उष्णवाताग्रक्षेत्रं कथ्यते । यदा एकवायुराशिः पूर्णतः धरातलात् उपरि गच्छति, तदा अधिविष्टवाताग्रं कथ्यते । वाताग्राणि मध्याक्षांशेषु एव निर्मितानि भवन्ति । तीव्रवायुभारः, तापमानप्रवणता च अस्य विशेषता वर्तते एव । एतैः वाताग्रैः तापमाने सहसा परिवर्तनं भवति । अनेन कारणेन एव वायुः उपरि गच्छति, मेघानां निर्माणं भवति, वर्षा भवति च ।[२०]

उष्णकटिबन्धीयः चक्रवत्

उष्णकटिबन्धीयः चक्रवत् ३०º उत्तरे, ३०º दक्षिणे अक्षांशयोः मध्ये प्राप्यते । अयं प्रायः ५०० कि. मी. तः १००० कि. मी. पर्यन्तं विस्तृतः वर्तते । अस्य औन्नत्यं १२ कि. मी. तः १४ कि. मी. पर्यन्तं भवति इति अनुमानम् । उष्णकटिबन्धीयचक्रवत् उष्मायन्त्ररूपेण विद्यते । समुद्रतलात् प्राप्तस्य जलवाष्पस्य सङ्घननप्रक्रियया अयम् उष्मां प्राप्नोति ।

उष्णकटिबन्धीयचक्रवतः उत्पत्तिविषये वैज्ञानिकानां मतभेदाः सन्ति । अस्य उत्पत्तौ निम्नलिखिताः परिस्थितयः आवश्यक्यः वर्तन्ते ।

  1. पर्याप्तमात्रायाम् उष्णार्द्रवायोः निरन्तरं प्राप्तिः भवेत्, येन अधिकमात्रायां गुप्तोष्मा मुक्ता भवेत् ।
  2. क्षोभमण्डलस्य स्थिरता, यया स्थानीयस्तरे निम्नवायुप्रबलताक्षेत्रं निर्माति । इदं क्षेत्रं परितः अपि चक्रवत् भवितुं शक्नोति ।
  3. प्रबलशम्यायाः अनुपस्थितिः, यया गुप्तार्द्र-उष्मावायोः उष्मा अवरुध्यते ।[२१]

उष्णकटिबन्धीयचक्रवतः संरचना

उष्णकटिबन्धीयचक्रवति वायुप्रबलतायाः प्रवणता (tendency) अत्यधिका वर्तते । चक्रवतः केन्द्रे उष्णवायोः निम्नवायुप्रबलतायाः मेघरहितः क्रोड इति विद्यते । अयं 'चण्डवातस्य चक्षुः’ इति कथ्यते । सामान्यतः समप्रबलतायाः रेखाः परस्परं समीपाः भवन्ति । ताः उच्चवायुप्रबलताप्रवणतायाः प्रतीकं वर्तन्ते । वायुप्रबलता प्रवणता १४ तः १७ मिलिबार् वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति । कस्मिंश्चित् समये ६० मिलिबार वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति ।[२२]

भारत-देशे चक्रवतां क्षेत्रानुसारं, समयानुसारं च वितरणम्

भारतस्य आकृतिः प्रायः द्वीपीया अस्ति । अस्य पूर्वदिशि बङ्गाल इत्यस्य गर्तः , पश्चिमदिशि अरब-सागरः च वर्तते । अतः अनयोः स्थलयोः एव चक्रवत् उत्पद्यते । वर्षर्तौ १०º तः १५º उत्तराक्षांशेषु चक्रवत् उत्पद्यते । बङ्गाल इत्यस्य गर्ते अधिकतमः अक्तूबर्-नवम्बरमासयोः चक्रवत् उत्पद्यते । तत्र १६º तः २१º उत्तरे, ९२º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते । किन्तु जुलाई-मासे अयं चक्रवत् सुन्दरवन-डेल्टा इत्यस्य समीपं १८º उत्तरे, ९०º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते ।[२३]

उष्णकटिबन्धीयचक्रवतां परिणामाः

उष्णकटिबन्धीयः चक्रवत् समुद्रस्य गुप्तोर्जया उत्पद्यते । अतः समुद्रात् दूरं चक्रवतः प्रभावः न्यूनः भवति । भारत-देशे अपि चक्रवत् यदा अरब-सागरात् दूरं गच्छति, तदा तस्य प्रभावः न्यूनः भवति । तटीयक्षेत्रेषु प्रायः उष्णकटिबन्धीयचक्रवत् १८० कि. मी. प्रतिघण्टायाः गत्या आविध्यति । तेन कारणेन चण्डवातीयक्षेत्रेषु समुद्रतले परिवर्तनं भवति । तत् परिवर्तनं 'तूफान महोर्मि' इति कथ्यते । तेन तटीयक्षेत्राणि जलमग्नानि भवन्ति । सस्यानां, मानवीयरचनायाः अपि नाशः भवति ।[२४]

आर्द्रता

पृथिव्याः, जलाशयेभ्यः च यदा जलं बाष्पितं भवति, तदा सः जलबाष्पः कथ्यते । वायौ जलबाष्पस्य मात्रा आर्द्रता कथ्यते । यदा वायौ जलबाष्पस्य मात्रा अधिका भवति, तदा आर्द्रदिनम् उच्यते । यथा यथा वायुः उष्णः भवति, तथा तथा वायोः जलधारणक्षमता वर्धते । तेन कारणेन अधिकः आर्द्रः भवति । आर्द्रदिने वस्त्राणि अपि शीघ्रं शुष्कानि न भवन्ति ।

यदा जलबाष्पः उपरि गच्छति, तदा अयं शीतलः भवति । जलबाष्पः सङ्घनितो भूत्वा जलबिन्दवः निर्माति । मेघः जलबिन्दूनां समूहः वर्तते । यदा जलबिन्दूनां भारः वर्धते, तदा वर्षारूपे अधः पतति ।

पृथिव्यां "जलवर्षणं" वर्षा इति कथ्यते । वर्षाजलेन एव अधिकतमं भौमजलं प्राप्यते । पादपाः जलसंरक्षणे साहाय्यं कुर्वन्ति । पादपानां, जीवानां, जन्तूनां च जीवनाय वर्षा महत्वपूर्णा वर्तते । वर्षया धरातलं नूतनजलं प्राप्नोति । वर्षायाः अभावेन जलस्य अभावः, शुष्कः भवति । अस्य विपरीतस्थितौ अधिकवर्षया अपि जनानां, धनस्य सस्यानां च हानिः जायते ।[२५]

वायोः गुणाः

वायुः शारीरिकस्वास्थ्याय महत्त्वपूर्णः भवति । भारतीयप्राचीनशास्त्रेषु आयुर्वेदः इति अन्यतमं शास्त्रं वर्तते । आयुर्वेदे अपि वायोः विभिन्नगुणाः प्राप्यन्ते [२६]। विभिन्नदिशां, वायूनां च महत्त्वम् अपि आयुर्वेदशास्त्रे वर्णितम् अस्ति ।

  • पूर्वदिशः वायुः मधुरः, स्निग्धः, विदाही, लवणः, गुरुः, रक्तपित्तवर्धनः च भवति ।
  • दक्षिणदिशः वायुः मधुरः, कषायः, अविदाही च भवति ।
  • उत्तरदिशः वायुः स्निग्धः, मधुरः, मृदु, कषायः, शीतश्च भवति ।
  • पश्चिमदिशः वायुः विशदः, रुक्षः, परुषः, बलनाशकः, कासशोषकः च भवति [२७]

वायोः अशुद्धयः

वायोः बह्व्यः अशुद्धयः भवन्ति । वायुमण्डलस्य सङ्घटने परिवर्तनात् अशुद्धयः उत्पद्यन्ते । पृथिव्यां बहुभ्यः कारणेभ्यः अनेकाः अशुद्धयः भवन्ति । यत्र मानवाः निवसन्ति, तत्र वायुसङ्घटने परिवर्तनं अधिकं भवति [२८]। किन्तु यत्र मानवरहितक्षेत्राणि सन्ति, तत्र वायुसङ्घटने परिवर्तनं अधिकं न भवति । वायोः अशुद्धीनां चत्वारः प्रकाराः सन्ति । ते - १ श्वसनम्, २ जलबाष्पम्, ३ सङ्क्रमणम्, ४ दहनम् च ।

श्वसनम् (Respiration)

जीवाः श्वसनप्रक्रियायाम् ऑक्सीजन्-वायुः स्वीकुर्वन्ति, कार्बन्-डाई-ऑक्साइड् वायुः निष्कासयन्ति च । वनस्पतयः कार्बन्-डाई-ऑक्साइड्-वायुः स्वीकुर्वन्ति, ऑक्सीजन्-वायुः निष्कासयन्ति च । किन्तु रात्रौ वनस्पतयः कार्बन्-डाई-ऑक्साइड्-वायुं निष्कासयन्ति । कार्बन्-डाई-ऑक्साइड्-वायोः अशुद्धिः भवति [२९]

यदि एकस्मिन् प्रकोष्ठे बहवः जनाः स्युः, तर्हि प्रकोष्ठे शुद्धवायोः प्रमाणं न्यूनीभवति । तेन अशुद्धवायुः उत्पद्यते । अशुद्धवायुना अस्माकं शरीरे बहवः रोगाः भवितुं शक्नुवन्ति । यथा- शिरोवेदना, छर्दिः, निद्राधिक्यं, मूर्च्छा इत्यादयः रोगाः उत्पद्यन्ते । अतः श्वसनप्रक्रियायाम् ऑक्सीजन् कार्बन्-डाई-ऑक्साईड् वाय्वोः समप्रमाणता आवश्यकी भवति । कारणं सामान्यव्यक्तिः श्वासे ६०० मि.ली. वायोः स्वीकरोति [३०]। तस्मिन् ऑक्सीजन्-वायोः मात्रा २१% भवति । तदा व्यक्तिः ५% ऑक्सीजन्-वायोः उपयोगं करोति । अनन्तरं अवशिष्टं १६% ऑक्सीजन्-वायुं निष्कासयति । प्रश्वसितवायौ कार्बन्-डाई-ऑक्साईड्-वायोः मात्रा ०.००४% भवति । किन्तु निष्कासने सः ४% तः ५% पर्यन्तं वृद्धिं प्राप्नोति[३१] । अनया प्रक्रियया स्वास्थ्यं समीचीनं भवति, अन्यथा रोगाः उत्पद्यन्ते ।

जलबाष्पम्

श्वसनक्रियायां यदा मनुष्यः कार्बन्-डाई-ऑक्साईड्-वायुं निष्कासयति, तदा तेन सह ६% जलबाष्पम् अपि निष्कासयति [३२]। स जलबाष्पः वायुना सह सम्मिलति । जलबाष्पः स्वेदरूपेण निर्गच्छति । सः बाष्पीभूय वायुं सम्मिलति । सूर्यस्य तापेन, जलं बाष्पीभूय वायुना सह सम्मिलति । तेन वायुसङ्घटने वृद्धिक्षीणत्वं भवति । तस्मात् एव बह्व्यः अशुद्धयः सम्भवन्ति ।

सङ्क्रमणम्

वायौ अशुद्धयः स्युः चेत् रोगाणाम् उत्पादकः विषाणुः, जीवाणुः च उत्पद्यते । ते विषाणवः, जीवाणवः च सामीप्येन, श्वासोच्छ्वासेन, ष्ठीवेन च वायुं प्रविशन्ति । तेन कारणेन वायुः अशुद्धः भवति । क्लोमपाकः (Pneumonia), श्वासरोगः (Asthma), क्षयरोगः (Tubercular), श्लेष्मरोगः (Influenza), मांससंतानिका (Diphtheria), चर्मरोगः, चक्षुरोगः इत्यादयः रोगाः अशुद्धवायुसङ्क्रमणेन उत्पद्यन्ते[३३]

दहनम्

मनुष्यजीवनचालनाय अनेकप्रकारकाणां ज्वलनशीलपदार्थानाम् आवश्यकता भवति । पुरा काष्ठः इन्धनत्वेन उपयुज्यते स्म । तेन वायौ ऑक्सीजन्-वायोः उपयोगः भवति स्म । कस्यापि वस्तुनः दहने ऑक्सीजन्-वायोः अत्यधिकावश्यकता भवति । दहनानन्तरं तस्मात् कार्बन्-डाई-ऑक्साईड् उत्पद्यते[३४] । तेन वायुः अशुद्धः भवति । आधुनिककाले अपि भोजनालये यः वायुः उपयुज्यते, तस्मिन् अपि ऑक्सीजन् वायोः आधिक्यं भवति । तेन ऑक्सीजन्-वायोः अधिकः व्ययः भवति । दहने सर्वाधिकः कार्बन्-डाई—ऑक्साईड्-वायुः एव उद्भवति । सः वायौ अभ्येति । ये ज्वलनशीलपदार्थाः सम्यक्तया न प्रज्वलन्ति, तेभ्यः कृष्णवर्णीयः, श्वेतवर्णीयः, पीतवर्णीयः च धूम्रः निर्गच्छति । श्वेतधूम्रे टार्, सल्फर्-डाई-ऑक्साईड्-वायुः च अधिकमात्रायाम् उद्भवति[३५] । ताभ्यां रोगाः जायन्ते ।

वायोः अशुद्धेः अन्यानि अपि बहूनि कारणानि सन्ति । यथा – जैविकपदार्थानाम् अपघटनम्, उद्योगानि, विद्युदुत्पादनानि, यानानि, यन्त्राणि, रजकणः, मानववृद्धिः, जनसमूहः च [३६]

निवासस्थानेषु वायोः प्रवेशनिकासयोः व्यवस्था

यथा आहारस्य आवश्यकता स्वास्थ्यरक्षार्थं भवति, तथैव निवासाय स्थानस्य अपि आवश्यकता भवति । अनामयार्थं स्वच्छस्थानस्य महत्त्वं वर्तते । निवासस्थाने पर्याप्तमात्रायां वायोः आवागमनं भवेत् तथैव तत्स्थाने व्यवस्था करणीया । वातायनानि, द्वाराणि च पर्याप्तमात्रायां स्युः[३७]

साम्प्रते काले वास्तुशास्त्रानुसारं गृहनिर्माणं भवति । अतः वास्तुशास्त्रानुसारं वायोः आवागमनव्यवस्था क्रियते । अस्माकं देशस्य जनसङ्ख्या अधिका अस्ति । अतः जनसङ्ख्यावृद्धिकारणात् निवासस्य समस्या भवति । उन्नतभवननिर्माणेन वायोः आवागमनव्यवस्थायां बाधा भवति । तद् स्वास्थ्याय हानिकारकम् अस्ति [३८]। यस्मिन् स्थाने जनसङ्ख्या अपि अधिका भवति, तत्रापि वायोः आवागमनव्यवस्था बाधिता भवति ।

वायोः अशुद्धिजन्यरोगाः

१ क्लोमपाकः (Pneumonia), २ राजयक्ष्मा, ३ श्लेष्मरोगः (Influenza), ३ मांससंतानिका (Diphtheria), ४ श्वासरोगः (Asthma), ५ चर्मरोगः, ६ चक्षुरोगः, ७ क्षयरोगः (Tubercular), ८ कर्करोगः (Cancer), ९ ज्वरः(fever), १० अतिसारः (Diarrhea), ११ मूर्छा, १२ हृदयरोगः, १३ शिरोवेदना (Headache) , १४ आलस्यं, १५ नाडिमन्दता, १६ उत्क्लेशः, १७ अपस्मार (Epilepsy), १८ उन्मादः, १९ आक्षेपः, २० रक्तिमा, २१ विषाक्तरोगः, २२ प्रत्युर्जता (Allergy) [३९]


वायुशुद्धिप्रकाराः

अस्माकं संस्कृतेः प्राचीनतमं चिकित्साशास्त्रम् आयुर्वेदः अस्ति । आयुर्वेदचिकित्सायां ओषधीभिः सह यज्ञहोमादिनाम् अपि वर्णनं कृतम् अस्ति [४०]। यज्ञे अनेकेषां प्रकारकाणां द्रव्याणाम् उपयोगः भवति । तेन वायुमण्डलस्य शुद्धिः भवति । तेषु यज्ञद्रव्येषु मुख्यत्वेन गुग्गुलः, राजिका, यवः, सर्षपः, चन्दनं, कर्पूरं, घृतं, लोहितपुष्पा, गन्धकः, अगरुः, देवदारुः इत्यादिनां प्रयोगः क्रियते । पुरा वायुप्रदूषणानि न्यूनानि आसन् । किन्तु आधुनिककाले वायुप्रदूषणानि अधिकानि सन्ति । अतः यज्ञकर्मणाम् अत्यावश्यकता वर्तते[४१]

वायोः शुद्ध्यर्थं प्राकृतिकसाधनानि

प्रकृतौ वायोः गतेः महत्त्वं वर्तते । वायुगत्या प्रकृतिः शुद्धा भवति । वायुः शीघ्रगत्या स्थानान्तरं करोति । तेन वायुः शुद्धिं प्राप्नोति । वायुमण्डले ऑक्सीजन्, कार्बन्-डाई-ऑक्साईड् इत्येतौ द्वौ वायू प्रकृत्याः अशुद्धिं निष्कासयतः । वनस्पतिः, वृक्षाः, पादपाः च मनुष्यजीवनाय महत्त्वपूर्णाः सन्ति । यतः ते वायुमण्डलात् कार्बन्-डाई-ऑक्साईड्-वायुं स्वीकुर्वन्ति, ऑक्सीजन्-वायुं निष्कासयन्ति च । तेन कारणेन वायुमण्डलस्य शुद्धिः भवति । अपरं च सूर्यस्य किरणैः वायुमण्डलस्य विभिन्नरोगाः, रोगकारकाः सूक्ष्मजन्तवः च नश्यन्ति[४२]


सम्बद्धाः लेखाः

बाह्यानुबन्धः

फलकम्:Commons

सन्दर्भः

फलकम्:Reflist फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=वायुः&oldid=9367" इत्यस्माद् प्रतिप्राप्तम्