वाद्ययन्त्राणि
१५:३१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
ढोल , मृदंग , दुन्दुभि , वीणा , शततन्त्री , एतादृशाः अनेके भारतीय वाद्यानि सन्ति । येषां वाद्यानां वादनं कर्णप्रियं , सुमधुरं च भवति । अनेके भारतीयाः युवकाः सततम् अभ्यासं कुर्वन्ति । अभ्यासेन ते वादननिपुणाः भवन्ति , श्रेष्ठाः वादकाः च भवन्ति । भारतीयरागपरम्परानुसारं यदा ते वादयन्ति तदा जनाः मन्त्रमुग्धाः भवन्ति । प्रातःकालस्य रागः , सायंकालीनः रागः , वर्षा रागः , युद्ध समयस्य रागः , शोककालस्य रागः एतेषु रागेषु यदा ते सुरावलिँ जनयन्ति तदा मनसि तदनुसारमेव भावः जायते । अस्माकं भारतीय वादन , गायन परम्परा बहु पुरातना समृद्धा च अस्ति ।