वर्कले
२१:१८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
वर्कले (जनार्दन) (०४७२) इत्येतत् स्थानं रोगपरिहारकं प्राकृतिकं स्थलम् इति ख्यातम् अस्ति । तिरुवनन्तपुरतः ५० कि.मी दूरे स्थितं जनार्दनक्षेत्रं यात्रास्थलं सागरतीरं च अस्ति । सागरतीरे रक्तशिलाः सन्ति । लवणयुक्तजलस्य उत्सांसि सन्ति । अत्र स्नानकरणेन चर्मरोगनिवारणं भवति । अतः जनाः अत्र आगत्य कतिचित् दिनानि उषित्वा स्नानं कुर्वन्ति । वर्कला धूमशकटनिस्थानम् अस्ति । वाहनसम्पर्कः सर्वनगरतः अस्ति । अत्रैव श्रीनारायणगुरोः स्मारकम् अपि अस्ति ।