यतः प्रवृत्तिर्भूतानां...
१३:०९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
- स्वकर्मणा तमभ्यर्च सिद्धिं विन्दति मानवः ॥ ४६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्चत्वारिंशत्तमः(४६) श्लोकः ।
पदच्छेदः
यतः प्रवृत्तिः भूतानां येन सर्वम् इदं ततम् स्वकर्मणा तम् अभ्यर्च सिद्धिं विन्दति मानवः ॥
अन्वयः
मानवः यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततम् तं स्वकर्मणा अभ्यर्च सिद्धिं विन्दति ।
शब्दार्थः
- भूतानाम् = प्राणिनाम्
- प्रवृत्तिः = उत्पत्तिः
- ततम् = परिव्याप्तम्
- स्वकर्मणा = स्वकर्तव्येन
- अभ्यर्च्य = आराध्य ।
अर्थः
सर्वेषां प्राणिनाम् उत्पत्तिः यस्मात् भवति, यः इदं समग्रं विश्वं व्याप्य तिष्ठति तादृशं परमात्मानम् एते सर्वेऽपि पुरुषाः आराध्य अभ्युदयं प्राप्नुवन्ति ।