मलेमहदेश्वरबेट्ट

भारतपीडिया तः
१४:१४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Merge from फलकम्:Infobox settlement

महदेश्वरदेवालयः

मलेमहदेश्वरबेट्ट (Male Mahadeshwara Hills) कर्णाटकराज्यस्य चामराजनगरमण्डले विद्यमानं किञ्चन क्षेत्रम् । एषः पर्वतः ३२०० पादपरिमितोन्नतः पर्वतपङ्क्तियुक्तः । अत्रत्यः आराध्यदेवः अस्ति श्रीमलेमहदेश्वरः । एषः लिङ्ग्गाकारः । शासनानाम् आधारेण एतस्य नाम महदेश्वरः इति । १४-१५ शतकेषु श्रेष्ठयोगिनः अस्मिन् प्रदेशे आसन् । एते परशिवस्य अवतारपुरुषाः इति जनानां विश्वासः अस्ति । एते अत्र तपः कृत्वा सिद्धपुरुषाः जाताः । एतेषां सिद्धपुरुषाणां वनवासिनः अजपालकाः व्याधाः च भक्ताः आसन् । एतेषां स्मरणार्थं देवस्थानं निर्मितम् अस्ति । ते सर्वे अत्रैव लिङ्गैक्यतां प्राप्तवन्तः इति इतिहासः ।

एतत् तीर्थस्थानं प्रति कर्णाटक-तमीलनाडुराज्यतः सहस्रशः भक्ताः आगच्छन्ति । दर्शनं कुर्वन्ति । टिप्पुसुल्तान् मैसूरुओडेयर प्रभृतयः देवालयाय अपरिमितं दानं कृतवन्तः सन्ति ।

मार्गसूची

मैसूरुतः २६० कि.मी ।
मेट्टूरुतः ४० कि.मी ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=मलेमहदेश्वरबेट्ट&oldid=9685" इत्यस्माद् प्रतिप्राप्तम्