मम योनिर्महद्ब्रह्म...

भारतपीडिया तः
१३:०८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः

मम योनिः महत् ब्रह्म तस्मिन् गर्भं दधामि अहम् सम्भवः सर्वभूतानां ततः भवति भारत ॥ ३ ॥

अन्वयः

भारत ! मम योनिः महत् ब्रह्म । तस्मिन् अहं गर्भं दधामि । ततः सर्वभूतानां सम्भवः भवति ।

शब्दार्थः

योनिः = गर्भाधानस्थानम्
महत् = विस्तृतम्
ब्रह्म = प्रकृतिः
गर्भम् = सल्परूपं बीजम्
दधामि = निक्षिपामि
ततः = तस्मात्
सर्वभूतानाम् = सकलजन्तूनाम्
सम्भवः = प्रभवः ।

अर्थः

भारत ! या इयम् अत्यन्तं महती प्रकृतिः वर्तते सा वृद्धिहेतुत्वात् ब्रह्म इत्युच्यते । सा प्रकृतिः मम गर्भाधानस्थानम् । तत्र अहं बहु स्याम्’ इत्येवंरूपं सल्पं निक्षिपामि । तेन सर्वेषामपि भूतानाम् उत्पत्तिः भवति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मम_योनिर्महद्ब्रह्म...&oldid=10596" इत्यस्माद् प्रतिप्राप्तम्