बुद्ध्या विशुद्धया युक्तो...
१३:०६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
- शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकपञ्चाशत्तमः(५१) श्लोकः ।
पदच्छेदः
बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥
अन्वयः
श्लोकसङ्ख्या :१८.५३ अहंकारं बलं दर्पं कामं द्रष्टव्या ।
शब्दार्थः
- विशुद्धया = सात्त्विक्या
- बुद्ध्या = मत्या
- धृत्या = धैर्येण
- नियम्य = वशीकृत्य
- शब्दादीन् = शब्दप्रभृतीन्
- विषयान् = इन्द्रियार्थान्
- रागद्वेषौ = आसक्तिविद्वेषौ
- व्युदस्य = अपहाय ।
अर्थः
श्लोकसङ्ख्या :१८.५३ अहंकारं बलं दर्पं कामं द्रष्टव्या ।
विशेषः
सात्विकबुद्धियुक्तस्य लक्षणम् उच्यते अतःमिलित्वा दत्तं वर्तते ।