फुल्लारदेवी (अट्टहास)

भारतपीडिया तः
२२:०८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


फुल्लारदेवी (अट्टहास) एतत् पीठं भारतस्य पश्चिमबङ्गालस्य बर्दवानपुरमण्डले विद्यमानेषु शक्तिपीठेषु अन्यतमम् । अस्य मण्डलस्य दाक्षिन्दीही अट्टहासग्रामे अस्ति एषः देवालयः जनाकर्षणस्य केन्द्रम् अस्ति एतत् पीठम्।

सम्पर्कः

बर्धमानपुरमण्डलस्य अट्टहासरेलनिस्थानकतः समीपे अस्ति । कोलकतातः २२० की.मी. दूरे अस्ति ।

वैशिष्ट्यम्

अत्रत्याः देव्याः विग्रहः बृहदाकारकः अस्ति ।विकसितपुष्पस्य आकारकौ ओष्टौ स्तः। तयोः वैशाल्यम् एव १५-१८पादाङ्गुलमितम् । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य ओष्ठौ अस्मिन् स्थाने पतितौ इति ऐतिह्यम् अस्ति ।अतः एव विग्रहः बृहदाकारकः। अत्रत्या देवी फुल्लादेवी इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः विश्वेशः इति च पूज्यते ।शिवस्य मन्दिरं पार्श्वे एव अस्ति ।

"https://sa.bharatpedia.org/index.php?title=फुल्लारदेवी_(अट्टहास)&oldid=4933" इत्यस्माद् प्रतिप्राप्तम्