धृत्या यया धारयते...
००:२६, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
- योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।
पदच्छेदः
धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥
अन्वयः
पार्थ ! योगेन अव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियक्रियाः धारयते सा धृतिः सात्त्विकी ।
शब्दार्थः
- अव्यभिचारिण्या = अविनाभूतेन
- यया धृत्या = येन प्रयत्नेन
- मनःप्राणेन्द्रियक्रियाः = चित्तप्राणेन्द्रियव्यापारान्
- योगेन = समाधिना
- धारयते = धरति
- धृतिः = प्रयत्नः
- सात्त्विकी = सात्त्विकी
अर्थः
अर्जुन ! फलनिरपेक्षः पुरुषः समाधिना सहैव वर्तमानया यया बुद्ध्या मनसः प्राणस्य इन्द्रियाणां च व्यापारान् धारयति तस्य पुरुषस्य सा धृतिः सात्त्विकी इत्युच्यते ।