द्वौ भूतसर्गौ लोकेऽस्मिन्...
१३:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
- दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः
द्वौ भूतसर्गौ लोकेऽस्मिन् दैवः आसुरः एव च दैवः विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥
अन्वयः
पार्थ ! अस्मिन् लोके दैवः आसुरः एव च (इति) द्वौ भूतसर्गौ । दैवः विस्तरशः प्रोक्तः आसुरं मे शृणु ।
शब्दार्थः
- भूतसर्गौ = मनुष्यसृष्टी
- दैवः = दिव्यः
- आसुरः = राक्षससम्बन्धी ।
अर्थः
अर्जुन ! एतस्मिन् लोके दैवगुणसम्पन्नः राक्षसगुणसम्पन्नः च द्विविधौ मनुष्यौ स्तः । तयोः दैवगुण - सम्पन्नस्य मनुष्यस्य अमानित्वादम्भित्वादिना त्रयोदशे अध्याये, गुणातीतत्वेन चतुर्दशे, निर्मान - मोहत्वादिना च पञ्चदशे अध्याये विस्तरेण निरूपणं कृतम् । आसुरगुणसम्पन्नस्य तु निरूपणम् इदानीं क्रियते, शृणु ।