जैनधर्मः

भारतपीडिया तः
११:५१, २४ एप्रिल् २०२२ पर्यन्तं 2405:204:e485:3a83:65a8:d42a:894d:96d2 (सम्भाषणम्) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox Jainism जैनधर्मः (फलकम्:IPA audio linkफलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते[१] । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति ।

जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति[२] । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति ।

नवकार-महामन्त्रः[३]

फलकम्:Cquote

एते पञ्चनमस्काराः सर्वपापनाशकाः सन्ति । एते सर्वे मङ्गलमन्त्राः सन्ति । सर्वे मन्त्राःश्रेष्ठाः अपि च इति ।

जैनधर्मः भारतस्य प्राचीना दार्शनिकपरम्परा वर्तते । मन्त्रः एका शक्तिः वर्तते इति स्पष्टम्[४] । नवकारः मन्त्रः जैनधर्मस्य आद्यमहामन्त्रः अस्ति । अयं मन्त्रः वैश्विकः, गुणपूजकः, असाम्प्रदायिकश्च अस्ति ।

नवकारमन्त्रस्य प्रथमे पदे भगवतः अरिहन्ताय नमस्कारः करणीयः इति उक्तम् । द्वितीये पदे भगवते सिद्धपरमात्मने नमस्कारः करणीयः इति उक्तम् अस्ति[५] । आचार्यः भगवतः पञ्चमहाव्रतानाम् उत्कृष्टतया आचरणं करोति स्म । तस्मै नमस्कारः करणीयः इति तृतीये पदे उक्तम् अस्ति । उपाध्यायजी इत्यनेन सूत्रसिद्धान्तस्य ज्ञानं प्रदत्तम् आसीत् । तस्मै नमस्कारः करणीयः इति चतुर्थे पदे उक्तम् अस्ति । [६]यैः सकलसृष्टेः साधुत्वं स्वीकृतं, तेभ्यः सर्वेभ्यः आत्मभ्यः नमस्कारः करणीयः इति पञ्चमे पदे उक्तम् अस्ति । परमेष्ठिने अर्घ्यं दातव्यम् अस्ति इति अस्य मन्त्रस्य आशयः अस्ति ।

अस्य मन्त्रस्य स्मरणमात्रेण एव शारीरिकपीडायाः, मानसिकपीडायाः च परितापेभ्यः शान्तिः प्राप्यते । तेन चित्तम् अपि शान्तं भवति ।

जैनधर्मस्य इतिहासः

जैनधर्मः भारतवर्षस्य प्राचीनधर्मः वर्तते । अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् । साम्प्रते काले अपि तीर्थङ्कराणां शासनम् अस्ति[७] । भविष्यत्काले अपि २४ तीर्थङ्कराणां श्रेणी भविष्यति इति उक्तम् अस्ति ।

चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् । तेन असी, मसी, कृषिः च एताः कलाः प्रदत्ताः । स्वरक्षणाय खड्गशस्त्रस्य उपयोगः, लेखनार्थं लेखनी-मष्योः उपयोगः, पोषणाय कृषिसाधनानाम् उपयोगः च करणीयः इति भगवता ऋषभदेवेन उक्तम्[८]

२६०० शरदां प्राक् भगवतः महावीरस्य जन्म अभवत् । सः चतुर्विंशतिषु तीर्थङ्करेषु अन्तिमः तीर्थङ्करः आसीत् । तेन एव अस्मिन् काले जैनधर्मस्य प्रचारः कृतः[९] |

भगवतः महावीरस्य समये धर्मानुष्ठानेषु यज्ञेषु हिंसा आसीत् ।[१०] विकृत्या संस्कृत्याः लोपः अभवत् । तदा श्रीमहावीरभगवान् संस्कृतेः पुनः प्रतिष्ठाञ्चकार ।

जैनधर्मस्य सर्वेषां तीर्थङ्कराणां जीवनस्य घटना, समयः, व्यवहारः च अस्माकम् आदर्शः अस्ति । सर्वेषां जीवने त्यागः, सदाचारः, संयमः, परोपकारः, आत्मधर्मस्य साक्षात्कारः भवेत् इति तीर्थङ्कराणाम् उद्देश्यम् आसीत् ।

आगमः

जैनधर्मस्य प्रमाणिताः शास्त्रग्रन्थाः ‘आगमः’ इति पदेन प्रसिद्धाः । आ इति उपसर्गपूर्वकात् गम् धातोः आगमशब्दस्य उत्पत्तिः जाता[११] । अर्थात् येन केषाञ्चित् तत्त्वानां पदार्थानां च ज्ञानं भवेत् स आगमः ।

पूर्वाचार्यैः आगमानां यथासमय सम्पादनं, संशोधनं, संकलनं च कृत्वा स्वेषां योगदानानि प्रदत्तानि सन्ति । सर्वेषां मनुष्याणां हितकारकेण महावीरस्वामिना ’त्रिपदी’ इति श्राविता[१२] । जैनतत्त्वज्ञानस्य, आचारशास्त्रस्य, वैचारिकदर्शनस्य च मिश्रणम् आगमेषु वर्तते । एतेषां तत्त्वानां मार्मिकविवेचनम् अपि आगमेषु वर्तते । अतः आगमेषु जैनपरम्परा अपि दृश्यते । एतैः आगमैः आत्मदर्शनाय मार्गदर्शनं प्राप्यते । अतः जिनागमः आत्मज्ञानस्य अमूल्यतत्त्वम् अस्ति ।

आचार्येण आर्यरक्षितेन अनुयोगानुसारं विषयदृष्ट्या सर्वेषाम् आगमसूत्राणां चतुर्षु विभागेषु विभाजनं कृतम् आसीत् ।

  1. द्रव्यानुयोगः ।
  2. चरणकरणानुयोगः ।
  3. गणितानुयोगः ।
  4. धर्मकथानुयोगः ।

द्वात्रिंशत् (३२) आगमाः[१३]

द्वात्रिंशदागमानां पञ्चधा विभाजनं कृतम् अस्ति । एकादश (११) अङ्गसूत्राणि, द्वादश (१२) उपाङ्गसूत्राणि, चत्वारि (४) छेदसूत्राणि, चत्वारि (४) मूलसूत्राणि, एकम् (१) आवश्यकसूत्रम् च । तानि सूत्राणि अधः लिखितानि सन्ति ।

एकादशः अङ्गसूत्राणि

१-आचाराङ्गम्, २-सुयडाङ्गम्, ३-ठाणाङ्गम्, ४-समवायाङ्गम्, ५-भगवती, ६-ज्ञाताधर्मकथा, ७-उपासकदशाङ्गम्, ८- अन्तगडदशाङ्गम्, ९-अनुत्तरोववाई, १०-प्रश्नव्याकरणम्, ११-विपाकः ।

द्वादशः उपाङ्गसूत्राणि

१-उववाई, २-रायपसेणी, ३-जीवाभिगमः, ४-प्रज्ञापना, ५-जम्बूद्वीप पन्नति, ६-चन्द्र पन्नति, ७-सूर्य पन्नति, ८-निरयावलिका, ९-कप्पवडिसीया, १०-पुप्फीया, ११-पुप्फचुलीया, १२-वह्निदशा ।

चत्वारि छेदसूत्राणि

१-व्यवहारसूत्रम्, २-बृहद्कल्पः, ३-निशियसूत्रम्, ४-दशाश्रुतस्कन्धः ।

चत्वारि मूलसूत्राणि

१-दशवैकालिकः, २-उत्तराध्ययनम् , ३-नन्दीसूत्रम् , ४-अनुयोगद्वारम् ।

अन्ते द्वात्रिंशत्तमम् आवश्यकसूत्रम् वर्तते । स्थानकवासिसम्प्रदायेन, तेरापन्थीसम्प्रदायेन च एतानि द्वात्रिंशत् सूत्राणि जैनागमः कथ्यते[१४]

श्रीश्वेताम्बरेण मूर्तिपूजकेन जैनसमाजेन द्वात्रिंशत्सूत्रेषु अन्यानि त्रयोदश सूत्राणि सम्मेलितानि । ते पञ्चचत्वारिंशत्सूत्राणि आमनन्ति । तेषु सूत्रेषु अङ्गोपाङ्गानि तथैव आमनन्ति । ते मूलसूत्रेषु आवश्यकसूत्रम् अपि गणयन्ति[१५] । तदुपरान्ते चतुर्षु मूलसूत्रेषु पिण्डनिर्युक्तिं, ओधनिर्युक्तिं च अपि गणयन्ति । ते चतुर्षु छेदसूत्रेषु महानिशीयं, पञ्चकल्पं च अपि गणयन्ति । अन्ते दश प्रकरणसूत्राणि अपि अधः लिखितानि सन्ति ।

१-आतुरप्रत्याख्यानम्, २-भक्तिपरीक्षा, ३-तन्दुलवैचारिकः, ४-चन्द्रवेदेयकः, ५-देवेन्द्रस्तवः, ६-गणिविद्या, ७-महाप्रत्याख्यानम्, ८-चतुःशरणम्, ९-श्रीस्तवः, १०-संस्तारकः[१६]

आवश्यकसूत्राणि

यथा शरीरस्य निर्वाहाय आहारः आवश्यकः भवति तथैव आत्मनः शुद्ध्यर्थं द्विवारं प्रतिक्रमणम् आवश्यकं भवति । अतः आवश्यकसूत्राणि इति कथ्यन्ते[१७] । आवश्यकसूत्राणि आगमेषु द्वात्रिंशत्तमः आगमः अस्ति इति । तानि आवश्यकसूत्राणि अधो लिखितानि सन्ति ।

  1. सामायिकः
  2. चउविसंथवो
  3. वन्दना
  4. प्रतिक्रमणम्
  5. काउसग्ग
  6. पच्चखाण
सामायिकः[१८]

सावद्ययोगात् निवृत्तिं विधाय आत्मशुद्धिमार्गे प्रवृत्तः भवितव्यः । बाह्यप्रवृत्तिभ्यः आन्तरिकप्रवृत्तिभ्यः निवृत्तिं विधाय समताभावेषु आत्मत्यागः एव सामायिकः इति ।

चउविसंथवो[१९]

चतुर्विंशतिस्तवेषु समस्तजीवेषु समभावत्वे सति ईष्टस्य भगवतः भक्तये ’चउविसंथवो’ इति अस्ति । मोक्षस्य प्राप्त्यर्थं कृतज्ञतार्थं च अपि चउविसंथवो अस्ति । तदनन्तरं जीवनस्य नवनवतिकोटीनां (९९) दोषाणाम् आलोचनं करणीयम् अस्ति ।

वन्दना[२०]

गुरूणां विनीतभक्तये वन्दना इति आवश्यकसूत्रेषु अन्यतमा इति ।

प्रतिक्रमणम्[२१]

दोषाणाम् आलोचनं, स्वनिन्दा, प्रायश्चित्तस्य भावः च प्रतिक्रमणम् अस्ति ।

काउसग्ग[२२]

प्रतिक्रमणे निर्मितानां त्रुटीनां प्रायश्चित्तं, भूतकालस्य वर्तमानकालस्य च पापानां प्रायश्चित्तं च कृत्वा आत्मशुद्ध्यर्थम् इयं प्रक्रिया क्रियते ।

पच्चखाण(प्रत्याख्यानम्)[२३]

भूतकालस्य पापेभ्यः मुक्त्यानन्तरं भविष्यत्कालस्य पापानाम् अवरोधनाय कृता क्रिया प्रत्याख्यानम् इति कथ्यते ।

जैनधर्मस्य मुख्याः सिद्धान्ताः

अहिन्सा, अपरिग्रहः, अनेकान्तः इति त्रिप्रकारकाः सिद्धान्ताः भवन्ति । तेषु अहिंसासिद्धान्तः मनोवैज्ञानिकाधारेण प्रस्थापितः अस्ति[२४] । जैनधर्मे शाश्वतधर्मस्वरूपेण अहिंसायाः स्थानं वर्तते । अहिंसायाः कारणेन जीवने सत्यस्य, अचौर्यस्य, ब्रह्मचर्यस्य, अपरिग्रहस्य च भावना उत्पद्यते । अहिंसायां जीवमात्रस्य अस्तित्त्वम् एव स्वीकृतम् अस्ति ।

जैनदर्शनेन परिग्रहस्य विषये सूक्ष्मनिरीक्षणानि कृतानि सन्ति ।[२५] यदा परिग्रहेषु स्वामिभावः, आसक्तिः, विवेकहीनभोगः च उत्पद्यते, तदा एव परिग्रहः अपराधे परिवर्तते । स्वर्णं रूपम् इत्यादयः नव बाह्यपरिग्रहाः सन्ति । क्रोधः,मानम् इत्यादयः षोडशाभ्यन्तरपरिग्रहाः सन्ति । अतः बाह्याभ्यन्तरपरिग्रहान् त्युक्तुं जैनाचार्याः कथयन्ति ।

अन्येषां विचाराः अपि सत्याः भवितुं शक्यन्ते । यदि मनुष्यः स्वदृष्टिं त्यक्त्वा भिन्नदृष्ट्या पश्येत् तर्हि सम्पूर्णं विश्वं शान्तं भवति इति जैनदर्शने एकान्तवादेन ज्ञायते[२६] । अनेकान्तस्य आचरणं विश्वशान्तेः मूलाधारः वर्तते ।

सम्प्रदायः

तीर्थङ्करमहावीरस्य कालपर्यन्तं जैनपरम्परा अविच्छिन्ना आसीत् । तदनन्तरं तृतीयशताब्द्यां जैनपरम्परायाः भागद्वयम् अभवत् । प्रथमः दिगम्बरः, अपरः च श्वेताम्बरः । मुनिप्रमाणसागरेण ’जैनधर्म और दर्शन’ इति नामिकायां स्वस्य रचनायां जैनसम्प्रदायस्य विभाजनविषये विस्तारेण लिखितम् अस्ति यत् – “आचार्यभद्रबाहुना स्वस्य ज्ञानबलेन पूर्वमेव उत्तरभारतस्य भौगोलिकस्थितिः ज्ञाता आसीत् । तदा आचार्यभद्रबाहुना सर्वेभ्यः जैनसाधुभ्यः प्रीतिपूर्वकं निर्दिष्टं यत् – सर्वे साधवः दक्षिणभारतं गच्छन्तु । यतः उत्तरभारतस्य स्थितिः गम्भीरा भविष्यति । उत्तरभारते द्वादशवर्षं यावत् दुष्कालः भविष्यति इति तेन उक्तम् आसीत् । अतः अस्मात् दुष्कालात् प्रतिरक्षार्थं दक्षिणभारते गन्तव्यम् इति । तदा आचार्यभद्रबाहुना सह बहवः जैनसाधवः दक्षिणभारतं गतवन्तः आसीत् । दक्षिणभारते ते साधवः वर्तमानकालस्य तमिळनाडु-राज्यं, कर्नाटक-राज्यं च प्राप्तवन्तः । तत्र गत्वा तपश्चर्यां चक्रुः । किन्तु तेषु साधुषु केचित् साधवः उत्तरभारते एव आसन् । दुष्कालस्य प्रभावात् तेषां साधूनां जीवननिर्वाहः आगमानुसारं भवितुं न शक्नोति स्म । अतः तैः बह्व्यः क्रियाः परिवर्तिताः । यथा – कटिवस्त्रधारणं, सप्तगृहेषु भिक्षाटनम् इत्यादयः क्रियाः तैः पर्यवर्तयन् । द्वादवर्षानन्तरं दक्षिणभारतात् साधूनां पुनरागनम् अभवत् । एतादृशीं स्थितिं दृष्ट्वा ते उक्तवन्तः यत् – पुनः महावीरस्य परम्परां स्वीकुर्वन्तु । किन्तु केनापि न स्वीकृता । इत्थं जैनधर्मस्य द्वौ सम्प्रदायौ अभवताम्” । दिगम्बरः श्वेताम्बरश्च ।

दिगम्बरः सम्प्रदायः

येषां वस्त्राणि दिशः एव ते दिगम्बराः सन्ति । जैनधर्मस्य दिगम्बरसम्प्रदाये साधुत्वं जीवनम् अत्यन्तं कठिनं वर्तते । बाह्याचरणं, नग्नावस्था, एकान्तवासः, वने विचरणं निवासश्च इत्यादयः दिगम्बरसम्प्रदायस्य नियमाः भवन्ति [२७]। प्रतिदिनम् एकं वारं भोजनं करणीयम् भवति । भोजनं तिष्ठता एव करणीयम् च । जलपानमपि एकवारम् एव करणीयम् । विधिपूर्वकः एव आहारः स्वीकरणीयः इत्यपि नियमः वर्तते । भोजनसमये कस्यापि भोजनपात्रस्य आधारः न स्वीकरणीयः । कराञ्जलिः एव भोजनपात्रं भवति । कराञ्जलौ आहारं नीत्वा भुक्तव्यं भवति । भोजनपरिवेषणाय अपि एकः श्रावकः भवति । सः मुनिभ्यः भोजनं परिवेषयति । यदि परिवेषकेण कापि त्रुटिः क्रियते, तर्हि तद्दिने तेन मुनिना उपवासः करणीयः भवति । आदिनं मौनं धारयति[२८] । दीक्षिता स्त्री आर्जीका (आर्याजी) इति कथ्यते । सा केवलम् एकं श्वेतवस्त्रम् एव धरति ।

मोक्षप्राप्तये सम्यग्दर्शनम् इति प्रथमं सोपानं वर्तते । दिगम्बरसम्प्रदायस्य अनुयायिनः मोक्षप्राप्तये नग्नत्वं धरन्ति । महावीरभगवतः अनन्तरम् इन्द्रभूति-गौतमः, सुधर्मा, जम्बूस्वामी पर्यन्तं जैनधर्मे मतभेदः नासीत् । किन्तु जम्बूस्वामिनः अनन्तरं जैनधर्मस्य भागद्वयम् अभवत् । श्वेताम्बरसम्प्रदायानुसारं महावीरस्य निर्वाणस्य ६०९ वर्षानन्तरम् अर्थात् ई. स. ८३ तमे वर्षे शिवभूतिना बोटिक मत (दिगम्बरस्य) इत्यस्य स्थापना कृता । कोण्डिन्यकोट्टिवीरौ शिवभूतेः प्रमुखौ शिष्यौ आस्ताम् ।

दिगम्बरसम्प्रदायस्य तीर्थक्षेत्राणि[२९]

  • चम्पापुरी
  • पावापुरी
  • गिरनार
  • कुंभोजगिरि
  • गजपन्था
  • मूळबिद्री
  • माङ्गीतूङ्गी
  • श्रवणबेलगोडा

इत्यादीनि क्षेत्राणि दिगम्बरसम्प्रदायस्य तीर्थानि सन्ति ।

दिगम्बरसम्प्रदायस्य वैशिष्ट्यम्

चतुर्गतिषु मनुष्यगतौ एव मोक्षः प्राप्यते । मुनिदीक्षया विना मोक्षः न प्राप्यते[३०] । केवलः पुरूषः एव सम्पूर्णदीक्षा स्वीकर्तुं शक्नोति ।

जैनधर्मस्य तत्वज्ञानस्य गहनाध्ययनार्थं जयपुर-नगरे टोडरमल् स्मारक ट्रस्ट इत्यनया संस्थया पञ्चवर्षीयः डीग्री-अभ्यासः प्रचाल्यते ।[३१] अनेन अभ्यासेन जैनसिद्धान्तानां ज्ञानं प्राप्तुं शक्यते । अनया संस्थया बहवः विद्वांसः भवन्ति । दिगम्बरविद्वांसः देशे विदेशे च जैनधर्मोपरि प्रवचनं कुर्वन्ति ।

लौकिकमार्गं त्यक्त्वा लोकोत्तरमार्गं प्रति प्रेषणाय दिगम्बरमुनयः प्रयासान् कुर्वन्ति ।

बाह्यसम्पर्कतन्तुः

फलकम्:Commons


सन्दर्भः

फलकम्:Reflist फलकम्:शिखरं गच्छतु तारणपंथ

"https://sa.bharatpedia.org/index.php?title=जैनधर्मः&oldid=397" इत्यस्माद् प्रतिप्राप्तम्