जे बि एस् हाल्डेन्

भारतपीडिया तः
११:०२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

(कालः ०५. ११. १८९२ तः ०१. १२. १९६४)

एषः जे. बि. एस्. हाल्डेन् (J. B. S. Haldane) अत्यन्तं प्रतिभावान् जीवविज्ञानी । अयं न केवलं जीवविज्ञानी अपि तु अन्येषु बहुषु क्षेत्रेषु प्रतिभावान् आसीत् । गणीतं, भौतविज्ञानं, वैद्यविज्ञानं, तत्त्वज्ञानं, विज्ञानसाहित्यम् इत्यादिषु बहुषु क्षेत्रेषु सः जे. बि. एस्. हाल्डेन् कार्यं कृतवान् आसीत् । सः जे. बि. एस्. हाल्डेन् १८९२ तमे वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के इङ्ग्लेण्ड्-देशस्य आक्स्फर्ड्-शैरि इति प्रदेशे जन्म प्राप्नोत् । ईटन् तथा आक्स्फर्ड् मध्ये अध्ययनम् अकरोत् । अस्य जे. बि. एस्. हाल्डेनस्य पिता जान् स्काट् हाल्डेन् अपि प्रख्यातः शरीरविज्ञानी आसीत् । एषः जे. बि. एस्. हाल्डेन् केम्ब्रिड्ज्, क्यालिफोर्निया, लण्डन् विश्वविद्यालयेषु अध्ययनं समाप्य किञ्चित् कालं यावत् कम्युनिष्टसिद्धान्तस्य अनुयायी आसीत् । अनन्तरं १९५७ तमे वर्षे ब्रिटन्-देशस्य नियमानां विरोधं कुर्वन् प्रतिभटनम् अपि अकरोत् । ततः तं देशं परित्यज्य भारतं गत्वा तत्रत्यं पौरत्वं प्राप्नोत् । अनन्तरं भारतदेशस्य ओडिशाराज्यस्य भुवनेश्वरे आनुवंशिकविज्ञानस्य तथा बयोमेट्रि-विभागस्य प्रयोगशालायाः प्रमुखरूपेण कार्यम् अकरोत् ।


एषः जे. बि. एस्. हाल्डेन् व्यक्तिस्वातन्त्र्यवादी अपि । सः भारतीयविज्ञानस्य अभिवृद्ध्यर्थं महान्तं श्रमम् अकरोत् । एषः जे. बि. एस्. हाल्डेन् जीवविकाससिद्धान्तस्य अन्वयं गणितक्षेत्रे अपि अकरोत् । कस्यांश्चित् जनजातौ वंशवाहिनां भेदेन कति विधानां जनाः जायन्ते ? ते परस्परं कथं विभिन्नाः भवन्ति । तानि लक्षणानि अग्रे अपि तस्यां जनजातौ कियता प्रमाणेन शिष्यते ? इत्यादीन् विषयान् सम्यक् परिशील्य प्रादर्शयत् । अयं जे. बि. एस्. हाल्डेन् जनकजीविषु विद्यमानानां जीविसमूहानां व्यवहारेण जनिष्यमाणः शिशुः कीदृशः भवति ? सः मातापित्रोः कान् गुणान् प्राप्नोति ? तस्य लिङ्गनिर्धारकं वर्णासूत्रं किम् ? इत्यादिकम् अपि विवृतवान् अस्ति । सः धनुर्वातस्य चिकित्सायाः सरलः क्रमः, आम्लजनकस्य आधिक्यं यत्र भवति तस्मिन् परिसरे क्रियमाणायाः चिकित्सायाः, शस्त्रचिकित्सायाः, हृदय-श्वासकोश–यन्त्राणां च तत्त्वम् अपि सूत्ररूपेण निरूपितवान् अस्ति । एषः जे. बि. एस्. हाल्डेन् स्वशरीरम् एव प्रयोगवस्तुनः रूपेण बहुधा उपयुज्यते स्म । शरीरस्य उपरि निपीडनस्य (Pressure) परिणामं ज्ञातुं समुद्रतले बहुकालम् उपविष्टवान् आसीत् । "सैटोक्रोम्” नामकस्य किण्वस्य संशोधनम् अस्य जे. बि. एस्. हाल्डेनस्य जीवनस्य प्रमुखं संशोधनम् इति वक्तुं शक्यते । अतिसूक्ष्माणां, मूल्यवताम् उपकरणानाम् अभावे अपि एकाग्रचित्तदर्शनेन, सरलैः गणनाक्रमैः महत्त्वपूर्णं वैज्ञानिकं साधनं कर्तुं शक्यते इति प्रादर्शयत् अयं जे. बि. एस्. हाल्डेन् । एषः १९६४ तमे वर्षे डिसेम्बर्-मासस्य प्रथमदिनाङ्के भारते एव मरणं प्राप्नोत् ।

बाह्यसम्पर्कतन्तुः

There are photographs of Haldane at

The biography on the Marxist Writers page has a photograph of Haldane when younger.

"https://sa.bharatpedia.org/index.php?title=जे_बि_एस्_हाल्डेन्&oldid=10407" इत्यस्माद् प्रतिप्राप्तम्