जनकः
विदेहस्य सर्वेऽपि राजानः जनकः इति नाम्नैव उच्यन्ते। तेषु सीतायाः पिता जनकः प्रसिद्धः वर्तते। तस्य नाम सीरध्वजः इति।
पूर्वकथा
विदेहदेशस्य राजा निमः वसिष्ठस्य शापकारणतः देहत्यागम् अकरोत्। तदानीं राज्यम् अराजकम् अभवत्। प्रजाः सम्भूय निमेः दक्षिणबाहोः मन्थनम् अकुर्वन्। तस्मात् कश्चन पुरुषः उत्पनः। तस्य जनकः, विदेहः मिथिः इति नाम कृतवन्तः। स एव विदेहस्य राजा अभवत्। तदनन्तरम् आगतानां सर्वेषां राज्ञां नामानि जनकः, मिथिः अथवा विदेहः इत्यैव अभवन्। तस्मिन्नेव कुले देवरातः अपि उत्पन्नः। देवरातानन्तरम् १५ जनकः सीरध्वजः आसीत्[१]।
सीतालब्धिः
जनकस्य पुत्राः न आसन्। अतः मुनीनां सूचनानुसारं जनकःपुत्रकामेष्टियागं कर्तुम् उद्युक्तः। तदङ्गतया भूमिकर्षणं कुर्वन् आसीत्। तदानीं काचित् स्वर्णपेटिका हलस्य कर्षणमार्गे लब्धा। तस्यां पेटिकायां कश्चन सुन्दरः स्त्रीशिशुः आसीत्। लाङ्गलस्य मार्गः सीता इत्युच्यते। शिशुः लाङ्गलमार्गे लब्धः इति कारणतः शिशोः नाम सीता इति कृतवान्। तदन्तरं जनकस्य पत्न्यां सुमेधायाम् अपि स्त्रीशिशुः उत्पन्नः। तस्य नाम ऊर्मिला इत्यासीत्।
सीताविवाहः
जनकस्य आस्थाने किञ्चन महाधनुः अवर्तत। तस्य शिवधनुः इति प्रसिद्धिः आसीत्। महाभारयुक्तं तद्धनुः उन्नेतुं कोऽपि न शक्नोति स्म। यः शिवधनुः उन्नीय शिञ्जिनीं योजयति तस्मै सीता दीयते इति उद्घोषः जनकेन कृतः। अनेके राजानः शिवधनुरुन्नयने विफलाः। अन्ततो गत्वा विश्वामित्रेण सह रामः जनकस्य आस्थानम् आगतः। शिवधनुषः शिञ्जिनीयोजनावसरे तद् भग्नं च। जनकः रामाय स्वपुत्रीं सीताम् अददात्। तया सह अपरां पुत्रीं ऊर्मिलां लक्ष्मणाय, स्वभ्रातुः कुशध्वजस्य पुत्र्यौ माण्डवीश्रुतकीर्ती भरतशत्रुघ्नाभ्यां च दत्तौ। रामस्य विवाहः वैभवेन जनकेन कृतः। कतिचन दिनानि यावत् दशरथादीनाम् आतिथ्यं च अकरोत्।
निःस्पृहता
जनकः निस्पृहेषु राजसु अन्यतमः। यद्यपि तस् सम्पत्तिः महती आसीत् तथापि सः निःस्पृहः आसीत्। अनेकैः महर्षिभिः सह जनकः संवादम् अकरोत्। कर्मणैव हि संसिद्धिमास्थिता जनकादयः इति भगद्गीतायामपि उक्तम् दृश्यते। जनकेन अष्टावक्रमुनिना सह कृतः संवादः प्रसिद्धः वर्तते। स संवादः अष्टावक्रगीतायाम् उल्लिखितः[२]। याज्ञवल्क्यः जनकं ब्रह्मविद्यां बोधितवान्। अन्येऽपि अनेके मुनयः जनकास्थानम् आगताः।
महाभारते
महाभारते तत्र तत्र जनकस्य कथायाः वर्णनं दृश्यते। शान्तिपर्वणि जनकथाः बह्व्यः विद्यन्ते[३]। प्रजापरिपालनं क्षत्रियस्य धर्मः। अतः तेन राज्यं न परित्यक्तव्यम् इति विषये पत्न्या सुमेधया सह कृतः संवादः, पञ्चशिखमुनिना सह अध्यात्मसंवादः, अश्म-जाकसंवादः, कहोलजनकसंवादः, सेवकानां नरकदर्शनम्, दहन्त्यां मिथिलायां जनकस्य मनःस्थैर्यम्, आशापरित्यागेन सुखम् इति विषये माण्डव्यमहर्षिणा सह संवादः, पराशरमहर्षिणा सह संवादः (पराशरगीता), भूतसृष्टिविषये याज्ञवल्क्येन सह संवादः, ममतात्यागविषये ब्राह्मणेन सह संवादश्च महाभारते वर्णितः[४][५]।
उल्लेखाः
- ↑ रामायणम् बालकाण्डः ७१ (विकिस्रोतः)
- ↑ Michael Witzel (1989), Tracing the Vedic dialects in Dialectes dans les litteratures Indo-Aryennes ed. Caillat, Paris, 97–265.
- ↑ महाभारतम् शान्तिपर्व (विकिस्रोतः)
- ↑ फलकम्:Cite journal
- ↑ फलकम्:Cite book