चन्द्रगुप्तः

भारतपीडिया तः
१८:४१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

चन्द्रगुप्त: (३१०-३३५) भारतस्य गुप्तसाम्राज्यस्य सम्राट् आसीत्‌। सः घटोत्कचस्य सुतः आसीत्। सः अयोध्याप्रयागमगधादीनां नगराणाम् अधिपतिः आसीत्‌। सः महाराजाधिराजः इति अभिधानम् अलभत। तेन वर्धिता श्रीः तस्य सुवर्णनाणकेषु दृश्यते। तस्य पट्टाभिषेक: ३२० तमे वर्षे अभवत्। गुप्तसम्राट् सन् सः गङ्गाप्रदेशे निवसद्भिः बहुभिः प्रमुखैः कुटुम्बैः सह सन्धिकरणेन प्रसिद्धः जातः। फलकम्:महीपाल:

जीवनम्

चन्द्रगुप्तः घटोत्कचस्य पुत्रः । तस्य पूर्वजैः 'महाराज'पदवी प्राप्ता आसीत् । प्रथमचन्द्रगुप्तः शिलाशासनेषु 'महाराजाधिराजः' इति निर्दिष्टः इत्येतत् तस्मात् कुटुम्बे दृष्टं भाग्यं सूच्यते । दिग्विजयद्वारा विवाहप्रस्तावानां द्वारा च तेन बहवः प्रदेशाः जिताः । तेन लिच्छवीराजकुमारी कुमारदेवी परिणीता। तेषाम् विवाहस्य चित्रं स्वनिष्केषु अङ्कितम्। समुद्रगुप्तः अपि कुमारदेव्याः पुत्रः एव आसीत्। लिच्छवीराज्यम् उपमगधम् उत्तरदिशि आसीत्। गुप्तलीच्छवीराज्ययोः ऐक्यं समुद्रगुप्तस्य विजयेषु उपाकरोत्। प्रयाग(अलहाबाद्)-साकेत(औध्)-मगध(दक्षिणबिहार्)जनपदानि गुप्तैः शास्यते इति उल्लेखः दृश्यते ।

"https://sa.bharatpedia.org/index.php?title=चन्द्रगुप्तः&oldid=5186" इत्यस्माद् प्रतिप्राप्तम्