एवं सततयुक्ता ये...
१२:५७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
अर्जुन उवाच -
- एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
- ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
एवं सततयुक्ताः ये भक्ताः त्वां पर्युपासते ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
अन्वयः
ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ?
शब्दार्थः
- ये भक्ताः = ये आराधकाः
- एवम् = सर्वकर्मार्पणादिना
- सततयुक्ताः = नित्यसमाहिताः
- त्वां पर्युपासते = त्वां सेवन्ते
- ये च अपि = ये अपि पुनः
- अक्षरम् = अविनाशि
- अव्यक्तम् = अतीन्द्रियम्
- तेषाम् = तेषु उभयेषु
- के = के
- योगवित्तमाः = अतिशयेन योगविदः ।
अर्थः
ये भक्ताः सर्वाणि कार्याणि समर्प्य नित्यसमाहिताः विश्वरूपं सर्वज्ञं त्वां सेवन्ते, ये पुनः अविनाशि अतीन्द्रियं निर्विशेषं तत्त्वं पर्युपासते तेषु उभयेषु के भक्ताः अतिशयेन योगविदः ?