एवं प्रवर्तितं चक्रं...

भारतपीडिया तः
१४:५०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement एवं प्रवर्तितं चक्रम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्रोल्लङ्खनं ये कुर्वन्ति, तेषआं निन्दां करोति । पूर्वस्मिन् श्लोके सृष्टिचक्रस्य कृते कर्तव्यपालनस्य आवश्यकतायाः विषयं समाप्य अत्र ये सृष्टिचक्रानुगुणम् आचरणं न कुर्वन्ति, तेषां निन्दां करोति । सः कथयति यद्, हे पार्थ ! यः मनुष्यः एतस्मिन् लोके एतस्मिन् लोके अनया परम्परया प्रचलितसृष्टिचक्रस्य अनुसारं न चलति, सः इन्द्रियैः भोगेषु रमणं कुर्वन् अघोयुः (पापमयं जीवनं यापयन्) मनुष्यः व्यर्थमेव जीवति इति ।

श्लोकः

गीतोपदेशः
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥

पदच्छेदः

एवं प्रवर्तितं चक्रं न अनुवर्तयति इह यः अघायुः इन्द्रियारामः मोघं पार्थ सः जीवति ॥ १६ ॥

अन्वयः

पार्थ ! यः एवं प्रवर्तितं चक्रं इह न अनुवर्तयति अघायुः इन्द्रियारामः सः मोघं जीवति ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
पार्थ अर्जुन !
यः यः पुरुषः
इह अस्मिन् लोके
एवम् इत्थम्
प्रवर्तितम् निर्मितम्
चक्रम् कर्मचक्रम्
न अनुवर्तयति न अनुसरति
इन्द्रियारामः इन्द्रियेषु रममाणः
अघायुः पापभूयिजीवितः
सः सः पुरुषः
मोघम् वृथा
जीवति प्राणिति ।

व्याकरणम्

सन्धिः

  1. नानुवर्तयतीह = न + अनिवर्तयति + इह – सवर्णदीर्घसन्धिः
  2. आघायुरिन्द्रियारामो मोघः ¬ = अघायुः + इन्द्रियारामः विसर्गसन्धिः (रेफः)
    1. इन्द्रियारामः + मोघम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  3. स जीवति = सः + जीवति – विसर्गसन्धिः (लोपः)

समासः

  1. अघायुः = अघम् (पापम्) आयुः यस्य सः – बहुव्रीहिः
  2. इन्द्रियारामः = इन्द्रियैः आरामः - तृतीयातत्पुरुषः

कृदन्तः

  1. प्रवर्तितम् = प्र + वृत् + णिच् + क्त (कर्मणि)
  2. आरामः = आ + रम् + घञ् (कर्तरि बहुलम्)

अर्थः

यः मनुष्यः अस्मिन् लोके कर्मचक्रानुगुणं नैव व्यवहरति, यः च कर्तव्यकर्म न करोति तादृशः इन्द्रियसुखलोलुपः पापाभूयिजीवितः पुरुषः व्यर्थं जीवति ।

भाष्यार्थः

'पार्थ' – नवमाध्याये प्रारब्धस्य विषयस्य उपसंहारं कुर्वन् अर्जुनाय 'पार्थ' इति सम्बोधनं करोति । एतस्य तात्पर्यम् अस्ति यद्, त्वं तस्याः कुन्त्याः पुत्रः अस्ति, यया आजीवनम् अनेकेषां कष्टानां स्वकर्तव्यपालनाय स्वीकारः कृतः । अतः त्वया अपि तथैव कर्तव्यपालनं करणीयम् । यत् युद्धं तुभ्यं घोरकर्म अस्ति, तत् तु कर्तव्यपालनम् (यज्ञः) अस्ति । तस्य कर्तव्यस्य पालनं सृष्टिचक्रानुगुणम् अपि उचितम् अस्ति । यदि तस्य कर्तव्यस्य पालनं न करिष्यसि, तर्हि सृष्टिचक्रविरुद्धं ते वर्तनं भविष्यति इति । 'एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः' – यथा रथचक्रस्य लघुभागस्य भङ्गे सति सम्पूर्णे रथे, रथिनि च प्रभावः भवति, तथैव पूर्वोक्तसृष्टचक्रानुसारं (चतुर्दशे, पञ्चदशे च श्लोकयोः) न चलति, सः समष्टेः सृष्टेः सञ्चालने विघ्नम् उत्पादयति । संसारः, मनुष्यः च विजातीयौ न स्तः । यथा शरीराङ्गानां शरीरेण सह घनिष्ठः सम्बन्धः भवति, तथैव मनुष्यस्य संसारेण सह घनिष्ठः सम्बन्धः भवति । यदा मनुष्यः कामना, आसक्तिः, अहङ्कारः इत्यादीनां च त्यागं कृत्वा कर्तव्यपानं करोति, तदा सृष्टौ स्वतः एव सुखं प्रवर्तते ।

'इन्द्रियारामः' – यः मनुष्यः कामनादीनां त्यागम् अकृत्वा आसक्तियुक्तः सन् इन्द्रियभागेषु एव रतः भवति, सः भोगरमणं कुर्वन् मनुष्यः पशोः अपेक्षया अपि निकृष्टः । यतो हि पशुः नवीनानि पापानि नाचरति । प्रत्युत पशुः अपि पूर्वसञ्चितानां पापानां फलं भुक्त्वा निर्मलताङ्गच्छति । परन्तु 'इन्द्रियारामः' मनुष्यः नवीनानि पापानि आचरति । एवं सः पतनं प्रति गच्छन् सृष्टिचक्रे विघ्नम् उत्पादयति । सृष्टिचक्रे विघ्ने सम्भूते सति सर्वत्र दुःखं प्रवर्तते । 'अधायुः' – सृष्टिचक्रानुसारं यः आचरणं न करोति, तस्य आयुष्यम् अर्थात् तस्य जीवनं केवलं पापमयं भवति । यतो हि इन्द्रियैः भोगबुद्ध्या भोगेषु एव सः मनुष्यः रतः हिंसारूपिपापैः युक्तः भवति । स्वार्थी, अभिमानी, भोगेच्छुकः, सङ्ग्रहप्रवृत्तः मनुष्यः अन्यस्य हितं चिन्तयितुम् अपि न शक्नोति । अतः तादृशस्य मनुष्यस्य जीवनं पापमयं भवति ।

'मोधं पार्थ स जीवति' – स्वस्य कर्तव्यस्य पालनं न कुर्वतः मनुष्यस्य निन्दां कुर्वन् भगवान् कथयति यद्, एतादृशाः मनुष्याः व्यर्थम् एव जीवन्ति । सृष्टिचक्रपदाक्रान्तेभ्यः मनुष्येभ्यः भगवान् 'स्तेन एव सः' [१], 'भुञ्जते ते त्वघम्' [२] इत्यादि पूर्वमेव उक्तवान् । अधुना 'अघायुरिन्द्रियारामः' इत्यस्य पदस्य उपयोगं कृत्वा तेषां जीवनं व्यर्थं घोषयति ।

शाङ्करभाष्यम्

एवमिति। एवमित्थमीश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं नानुवर्तयतीह लोके यः कर्मण्यधिकृतः सन्नघायुरघं पापमायुर्जीवनं यस्य योऽघायुः पापजीवन इति यावत्,इन्द्रियाराम इन्द्रियैराराम आरमणमाक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हेपार्थ, स जीवति। तस्मादज्ञेनाधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थः। प्रागात्मज्ञाननिष्ठायोग्यताप्राप्तेस्तादर्थ्येनकर्मयोगनुष्ठानमधिकृतेनानात्मज्ञेन कर्तव्यमेवेत्येतत् 'न कर्मणामनारम्भाद्' इत्यत आरभ्य 'शरीरयात्रापि च ते न प्रसिध्येदकर्मणः' इत्येवमन्तेन प्रतिपाद्य 'यज्ञार्थात्कर्मणोऽन्यत्र'इत्यादिना 'मोघं पार्थ स जीवति' इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकमधिकृतस्यानात्मविदः कर्मानिष्ठाने बहुकारणमुक्तं तदकरणे च दोषसंकीर्तनं कृतम् ।।16।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. गीता, अ. ३ , श्लो. १२
  2. गीता, अ. ३ , श्लो. १३
"https://sa.bharatpedia.org/index.php?title=एवं_प्रवर्तितं_चक्रं...&oldid=2743" इत्यस्माद् प्रतिप्राप्तम्