इत्यहं वासुदेवस्य...
१२:५५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
सञ्जय उवाच -
- इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
- संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतु्ःसप्ततितमः(७४) श्लोकः ।
पदच्छेदः
इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥
अन्वयः
महात्मनः वासुदेवस्य पार्थस्य च रोमहर्षणम् अद्भुतम् इमं संवादम् इति अहम् अश्रौषम् ।
शब्दार्थः
- महात्मनः = महानुभावस्य
- वासुदेवस्य = नारायणस्य
- पार्थस्य = अर्जुनस्य
- रोमहर्षणम् = रोमाञ्चकरम्
- संवादम् = सम्भाषणम्
- अश्रौषम् = अशृणवम् ।
अर्थः
महानुभावस्य नारायणस्य अर्जुनस्य च रोमाञ्चकरम् आश्चर्यम् एनं संवादम् अहम् अशृणवम् ।