अथ व्यवस्थितान् दृष्ट्वा...

भारतपीडिया तः
१२:५१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
हृषीकेशं तदा वाक्यम् इदमाह महीपते ।

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य विंशतितमः (२०) श्लोकः ।

पदच्छेदः

अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः । प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः ॥ हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते ।

अन्वयः

महीपते ! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिध्वजः पाण्डवः शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह ।

शब्दार्थः

महीपते = हे धृतराष्ट्र !
अथ = ततः
व्यवस्थितान् = उद्युक्तान्
धार्तराष्ट्रान् = कौरवान्
दृष्ट्वा = वीक्ष्य
कपिध्वजः = वानरकेतनः
पाण्डवः = अर्जुनः
शस्त्रसम्पाते = आयुधपाते
प्रवृत्ते = सम्पन्ने
धनुः = चापम्
उद्यम्य = उद्धृत्य
तदा = तस्मिन् समये
हृषीकेशम् = कृष्णम्
इदम् = एतत्
वाक्यम् = वचनम्
आह = वदति

अर्थः

महीपते ! अथ अर्जुनः युद्धसन्नद्धान् कौरवान् अपश्यत् । तदा शस्त्रप्रहारोऽपि आरब्धः । अर्जुनः धनुः उद्यम्य श्रीकृष्णम् एवम् अवदत् ।।

श्लोकवैशिष्ट्यम्

अस्मिन् श्लोके विषयस्य सुष्ठु अवगमनाय अग्रिमश्लोकस्य प्रथमपादः अपि अत्रैव योजितः ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः